एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावकृत्प्र ०] परिनिष्ठाकाण्डः । ११५५ । षिद्भिदादिभ्योऽङ् । (३-३-१०४) षिद्भ्यो भिदादिभ्यश्च क्तिनोऽपवादोऽङ् । क्षमूषू–क्षमा । लृष्– जरा । त्रपूष्– त्रपा | भि धारा, रेखा, चूडा, पीडा इत्यादि । ११५६ । आतचोपसर्गे । (३-३-१०६) आदन्तेभ्यश्च सोपसर्गेभ्योऽङ् स्त्रियाम् । यथा - - यथा - - – भिदा । छिदा, मेधा, स्त्रियां ण्वुलू । यथा - उपधा, उपदा, श्रद्धा, प्रतिष्ठा, उपमा, प्रमा । ११५७ । ण्यासश्रन्थो युच् । (३-३-१०७) ण्यन्तेभ्य आसश्रन्थाभ्यां च युच् 'अ प्रत्ययात्' इत्यस्यापवादः । यथा – कारणा, चोरणा, भावना, आसना, श्रन्थना । ११५८ । रोगाख्यायां ण्वुल् बहुलम् । (३-३-१०८) यथा – प्रच्छर्दिका, प्रवाहिका, विचर्चिका | बहुलग्रहणात् शिरोऽर्तिरित्येव । ॥ ॥ धात्वर्थनिर्देशे ण्वुल् वक्तव्यः ॥ स्त्रियामित्येव । यथा— आसिका, शायिका, भञ्जिका, खादिका इत्यादि । = ११५९ । संज्ञायाम् । (३-३-१०९) ३२७ उद्दालकपुष्पभञ्जिका,—क्रीडाविशेषस्य संज्ञेयम् । वरणपुष्पचायिका । अभ्यूष खादिका । १९६० । आक्रोशे नञ्यनि: । (३-३-११२) आक्रोशे गम्ये नञ्युपपदे धातोरनिः । यथा— 'तस्याजननिरेवास्तु' – जननाभावः – एवम् अरमणिः । ११६१ । कृत्यल्युटो बहुलम् । (३-३-११३) भावे अकर्तरि च कारके इति निवृत्तम् । कृत्यप्रत्यया ल्युट् च बहुलमर्थेषु स्युः । अविहितेष्वर्थेष्वपि द्रष्टव्याः । यथा- कृत्याः – स्नानीयं चूर्णम् – स्नात्यनेनेति करणे । दानीयो विप्रः—दीयतेऽस्मै इति सम्प्रदाने । SGDF ल्युट्— राजभोजनाः शालयः राज्ञा भुज्यन्त इति कर्मणि । -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३४६&oldid=347940" इत्यस्माद् प्रतिप्राप्तम्