एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लकारार्थप्रकरणम् ] परिनिष्ठाकाण्डः । ११७८ । गर्हायां लडपिजात्वोः । (३-३-१४२) गर्हायां गम्यायां अपिजात्वोरुपपदयोः कालत्रये लट् । यथा - अपि (जातु वा,) युधिष्ठिरोऽनृतं वदति – भूते । जातु मन्दोऽयं परीक्षायामुत्तरति — भविष्यति । अपि नृपोऽदण्ड्यान् दण्डयति–वर्तमाने । ३३१ ११७९ । विभाषा कथमि लिङ् च । (३-३-१४३) गर्हायामित्येव । चाल्लट् । विभाषाग्रहणात् पक्षे यथाप्राप्तं लकारः । यथा—कथं नाम नृपोऽधर्ममाचरेत्, आचरति वा । पक्षे यथाकालम् आच- रिष्यति, आचारीत् इति च । अत्र क्रियातिपत्तिश्चेत् 'वोताप्योः' इत्यधिकारात् भूते लङ वा । भविष्यति नित्यम् । १९८० । किंवृत्ते लिङ्लृटौ । (३-३-१४४) गयां कालसामान्ये लिङ्लटौ किंवृत्त: शब्द उपपदं चेत् । यथा--को नाम नृपोऽधर्मं चरेच्चरिष्यति वा । अत्रापि ऌडूह्यः । एवमग्रेऽपि लिङ्प्रसक्तौ । ११८१ । अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि । (३-३-१४५) अनवक्ऌप्तिरसम्भावना | अमर्षोऽक्षमा । एतदर्थयोर्धात्वोरुपपद- योर्लिङ्टौ कालसामान्ये । यथा - - नावकल्पयामि, न सम्भावयामि, न श्रद्दधे, न मर्षयामि, न सम्प्रधारयामि वा नृपोऽधर्मं चरेच्चरिष्यति वा । ११८२ | किंकिलास्त्यर्थेषु लृट् । (३-३-१४६) अनवक्लृप्त्यमर्षार्थे ' किंकिल' इति निपातसमुदाये अस्त्यर्थे धातौ चोपपदे कालसामान्ये लडेव । यथा - किंकिल त्वमसत्यं वक्ष्यसि । अस्ति भवति विद्यते वा अस्तिमान् भवान् परान्नं भोक्ष्यते । तमान् भवान् परानं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३५०&oldid=347945" इत्यस्माद् प्रतिप्राप्तम्