एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३२ लघुपाणिनीये [लकारार्थप्रकरणम् ११८३ । जातुयदोर्लिङ् | (३-३-१४७) (यदायद्योरुपसंख्यानम् ।) अनवक्लप्त्यमर्षयोरित्येव । लटोऽपवादः । यथा— जातु यद्यदा यदि वा त्वादृशो हरिं निन्देत् नावकल्पयामि । । यथा- १९८४ । यच्चयत्रयोः । (३-३-१४८) [ — यच्च यत्र वा त्वमेवं कुर्याः न श्रद्दधे न मर्षयामि । ११८५ । गर्हायां च । (३-३-१४९) यच्चयत्रयोरुपपदयोर्लिङ् | यथा— यच्च यत्र वा परदारान् गच्छेः– गर्ह्यमेतत् । - १९८६ । चित्रीकरणे च । (३-३-१५०) यच्च यत्र वा वामनस्त्रिभिः पदैर्जगन्मिमीत—चित्रमेतत् । ११८७ । शेषे ऌडयदौ । (३-३-१५१) यच्चयत्राभ्यामन्यत्र चित्रीकरणं शेषः । तत्र लट् यदिशब्दस्य प्रयोगाभावे । यथा— आश्चर्यमन्धो नाम कृष्णं द्रक्ष्यति । यदिप्रयोगे तु— आश्चर्य यदि मन्दः परीक्षायामुत्तरेत् । ११८८ । उताप्योः समर्थयोलिंङ् । (३-३-१५२) बाढमित्यर्थे अनयोः समानार्थता । यथा— उतायमधीयीत । अध्ययमधीयीत - बाढमध्येध्यत इत्यर्थः । ११८९ । कामप्रवेदनेsकच्चिति । (३-३-१५३) स्वाभिप्रायाविष्करणं कामप्रवेदनम् । तस्मिन् गम्यमाने कच द्भिन्ने उपपदे धातोः कालत्रये लिङ् | यथा—कामो मे भुञ्जीत भवान् । कच्चिति तु –' कच्चिज्जीवति ते माता कच्चिज्जीवति ते पिता ।' ११९० । सम्भावनेऽलमिति चेत् सिद्धाप्रयोगे । (३-३-१५४) सम्भावनं क्रियासु योग्यताध्यवसानम् । शक्तिश्रद्धानम्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३५१&oldid=347946" इत्यस्माद् प्रतिप्राप्तम्