एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लकारार्थप्रकरणम् ] परिनिष्ठाकाण्डः । ३३५ 'लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि' इति वचनात् समासे अवश्यकार्यम् । अवश्य कर्तव्यमित्याद । एवं कर्तुकामः, कर्तुमनाः इत्याद्यपि । १२०३ । शकि लिङ् च । (३-३-१७२) शक्यर्थे लिङ्, कृत्यप्रत्ययाश्च । यथा- भवान् भारं वहेत् । भवता भारो वोढव्यः– भारवहने भवान् शक्त इत्यर्थः । आशिषि लिङ्लोटौ (३-३-१७३) व्याख्यातम् । भूयात्, भवतात् । १२०४ । माङि लुङ् । (३-३-१७५) माङ् इति निपाते उपपदे धातोर्लुङ् सर्वलकारापवादः । ‘न माङयोगे' (४७०) इत्यडाटो: प्रतिषेधः । यथा— मा त्वं भैषीः । मैवं भाषिष्ठाः । मा पीडा भूत् । लोडपि दृश्यते – मास्तु, अनृतं मा वद । १२०५ । स्मोत्तरे लङ् च । (३-३-१७६) चाल्लुङ्—मास्म करोत्, कार्षांद्वा । १२०६ । धातुसम्बन्धे प्रत्ययाः । (३-४-१) धात्वर्थसम्बन्धो धातुसम्बन्धः । स च विशेषणविशेष्यभावः । तदनुसारेण यथाकालोक्ता: प्रत्ययाः स्युः । कालस्यापेक्षिकत्वात् विशेष्य- क्रियाकालापेक्षया विशेषणक्रियाया भूतभविष्यद्वर्तमानव्यवहार इत्यर्थः । प्रत्यया इति सामान्यग्रहणात् न केवलं कृत्सु लकारेषु च, अपि तु तद्धितेष्वव्ययमेव नियमः । यथा— - सीतां परिणीयागच्छन् राम्रो जामदग्न्येनाधर्षि अत्र आगच्छन्निति वर्तमानकालो धर्षणापेक्षया । "कदा वाराणस्याममरतटिनीरोधसि वसन् - प्रसीदेति क्रोशन् निमिषमिव नेष्यामि दिवसान्" अत्र वसन् क्रोशन् इति लट: शता नेष्यामीति भविष्यदपेक्षया । अयं ग्रन्थो मासादर्वाक् पूर्णो भविष्यति अत्र भविष्यदपेक्षया पूर्ण इति भूते निष्ठा ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३५४&oldid=347949" इत्यस्माद् प्रतिप्राप्तम्