एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विभक्त्यर्थप्र० ] परिनिष्ठाकाण्ड: । विभक्त्यर्थप्रकरणम् || - - प्रसङ्गवशात् पूर्वमेव कारकस्य सामान्यलक्षणमुक्तम् । निरुक्ते प्रधानकारके कर्तृकर्मणी; शेषाणि च हेतु- सम्प्रादना - पादान - करणा धिकरणाख्यानि नामतः परिगणितानि । एवमत्र विभक्त्यर्थप्रकरणे भारो लघूकृतो वर्तते । विभक्तेस्तावत् कारकविभक्तिरुपपदविभक्तिरित्यर्थोपाधिको द्विविधो भेदः । तत्र कारकविभक्तिर्व्यापकं, निरुक्तस्वरूपं, तत्तत्कारका- त्मकं सम्बन्धमाह | अन्या व्याप्यस्वरूपं तत्तदुपपदानुरोधात् भिन्नभिन्नं सम्बन्धमभिदधाति । अत्र सूवक्रमानुरोधेन प्रथमं कारकाणि लक्षयित्वा तदर्थे उपपदयोगे च विभक्तीविधास्यामः । अमुकस्मिन् कारकेऽमुका विभक्तिः प्रयोक्तव्येति व्यवस्थायामकृतायां कारकाणामुदाहरणमशक्य- मिति सा व्यवस्था वृत्तेनात्र पूर्वमेव संगृह्यते- ३३९ तेजोवत् प्रथमा स्थितं प्रकटयत्यर्थं, द्वितीया पुनः स्यात् कर्मण्यथ हेतुकर्तृकरणेष्वेवं तृतीया भवेत् । तुर्यार्थः किल सम्प्रदानक,-मपादानार्थिका पञ्चमी, सप्तम्या ह्यभिधीयतेऽधिकरणं, शेषेषु षष्टी मता ॥ १२१५ । कारके । (१-४-२३) इतः परं कारके ( क्रियायां) विषये संज्ञा विधीयन्ते । इत्यधि- क्रियते ॥ १२१६ । ध्रुवमपायेऽपादानम् । (१-४-२४) अपायो विश्लेषः, तत्र कारके ध्रुवं (स्थिरं) अपादानसंज्ञं स्यात् । विश्लेषे साध्ये तयुक्तमवधिभूतं अपादानमित्यर्थः । अपादानं पञ्चमी वक्तीत्युक्तं हि । यथा- वृश्चात् पर्ण पतति । रथादवरोहति सूतः । ग्रामादागच्छति भ्रश्यति पान्थः । अच्छति बटुः वटुः । मा मार्गात्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३५८&oldid=347953" इत्यस्माद् प्रतिप्राप्तम्