एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ]
शिक्षाकाण्डः ।
२६ । मिदचोऽन्त्यात् परः । (१-१-४७)
यस्य मकारेण इत्कृतः सः अन्त्यस्वरात् परः कार्यः । तथा च
मित् हलन्तेष्वन्त्याद्धल: पूर्व निवेशनीयः, अजन्तेष्वन्त एव । आदे-
शानां नियमोऽनुपदं वक्ष्यते । अष्टाध्यायीक्रमानुरोधेन मध्यगतानि
परिभाषासूत्राणि प्रथमं व्याख्यायन्ते ||
१९
२७ । एच इग्घ्रस्वादेशे । (१-१-४८)
इक हस्वादेशे इति च्छेदः । ए, ओ, ऐ, औ इति संध्यक्षराणां
ह्रस्वा न सन्तीत्युक्तम् ; तेषां ह्रस्वो यदि विधीयते तर्हि तत्स्थाने इक्
( इ उ ऋ ऌ) प्रयोक्तव्यः । इदमुदाहरणस्थलेषु स्फुटीकरिष्यते ॥
२८ । षष्ठी स्थानेयोगा । (१-१-४९)
'स्थाने' इति पदस्य योगो यस्याः, सा स्थानेयोगा । 'तख
स्थाने' इति वक्तव्ये पाणिनि: 'तस्य' इति षष्ठीमेव प्रयुङ्क्ते, 'स्थाने
इति पदमध्याहार्यमित्यर्थः । अयं संप्रदाय आदेशविधिषूपयुज्यते ।
यथा—'अस्तेर्भूः' इति सूत्रस्य अस्तेः स्थाने भूरित्यर्थः ॥
२९ । स्थानेऽन्तरतमः । (१-१-५०)
स्थाने चान्तरतम: (सदृशतम:) आदेश: कार्यः । यत्र अमुक
आदेश इति वर्णविशेषमनुक्त्वा पूर्वसवर्णः, परसवर्णः, मूर्धन्यः, यण्
(प्रत्याहारः) इत्यादि सामान्यरीत्या आदेशः कथ्यते, तत्र स्थानप्रयत्नाभ्यां
योग्यतां परीक्ष्य सदृशतमो वर्ण आदेशत्वेन ग्राह्य इत्यर्थः ।
३० । उरण् रपरः । (१-१-५१)
'उः' इति 'ऋ' इत्यस्य षष्ठचन्तं रूपम् । ऋकारस्थाने आदि-
श्यमान: अणू (अ इ उ) रेफं परं कृत्वा उच्चार्य: । ऋकारस्य अ, इ, उ
इत्येते आदेशा: क्रमात् अर्, इर्, उर् इत्येवंरूपा ग्राह्या इत्यर्थः ।
१. ऋ-स्वरे हि रेफांशः स्फुटं श्रूयते । अतस्तदादेशा रेफसंस्कृतमुच्चारणमर्हन्तीति
न्याय्यमेवैतत् । अणादेश ऋकारस्य रेफांशं पृथक्कृत्यैव कार्य इति हृदयम् । एवम्
ऌकारादेशो लकारं पुरस्कृत्योचारणीयः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३६&oldid=347401" इत्यस्माद् प्रतिप्राप्तम्