एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विभक्त्यर्थप्र ०] परिनिष्ठाकाण्डः । यथा- अथ सम्प्रदानम्- १२२४ । कर्मणा यमभिप्रैति स सम्प्रदानम् । (१-४-३२) कर्ता कर्मणा यत् प्राप्तुमिच्छति तत् कारकं सम्प्रदानसंज्ञम् । विप्राय गां ददाति राज्ञे करमर्पयति शिष्याय शास्त्रमुपदिशति । अतिथये पाद्यमुपनयति । ३४१ १२२५ | रुच्यर्थानां प्रीयमाणः । (१-४-३३) प्रीयमाणस्तर्प्यमाणः, प्रीतिभाक् इत्यर्थः । अन्यकर्तृकोऽभिलाषो रुचिः । रुच्य- र्थानां प्रयोगे प्रीतिभाक् सम्प्रदानं स्यात् । यथा-- बालाय रोचते स्वदते वा मोदकः - बालकं तर्पयतीत्यर्थः । १२२६ । श्लाघहुस्थाशपां ज्ञीप्स्यमानः । (१-४३४) यथा - गोपी कृष्णाय श्लाघते, स्वकृतां श्लाघां कृष्णो जानीयादिति श्लाघत इत्यर्थः । एवं द्रुतं, शपते, तिष्ठत इति । १२२७ । धारेरुत्तमर्णः । (१-४-३५) - यथा – देवदत्ताय शतं धारयति-शतमितमृणं देवदत्ताय प्रत्यर्पणीयं वहतीत्यर्थः । १२२८ । स्पृहेरीप्सितः । (१-४-३६) स्पृहयतेः प्रयोगे आप्तुमिष्टः संप्रदानम् । 'कर्तुरीप्सिततमं कर्म' इतीप्सित- तमत्वे कर्मसंज्ञा विधास्यते । यथा- पुष्पेभ्यः स्पृहयति–पुष्पविषयकां स्पृहां करोति । पुष्पाणि स्पृहयति — अत्र सप्रकर्षा स्पृहा । १२२९ । क्रुधदुहेर्ष्यासूयार्थानां यं प्रति कोपः । (१-४-३७) क्रोधोऽमर्षः, द्रोहोऽपकारः, ईर्ष्या अक्षमा, असूया गुणेषु दोषाविष्करणम् । एतदर्थकानां प्रयोगे कोपविषयः संप्रदानम् । क्रोधस्तावत् कोप एव । द्रोहादयः कोपप्रभवा एव विवक्षिताः । अत उक्तं सामान्येन ‘यं प्रति कोपः' इति । यथा- चैद्यो हरये क्रुध्यति, द्रुह्यतीयंत्यसूयति वा । प्रत्यु० – ( 'यं प्रति कोपः' किम् ?) भार्यामीर्ष्यति-मैनामन्यो द्राक्षीदिति कोपोऽत्रान्य विषयकः । १२३० । क्रुधब्रुहोरुपसृष्टयोः कर्म । (१-४३८) सोपसर्गयोस्तु क्रुधगुहोः प्रयोगे यं प्रति कोपः तस्कारकं कर्मसंज्ञं स्यात् । यथा- देवदत्तमभिक्रुध्यति, अभिट्टयति वा ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३६०&oldid=347955" इत्यस्माद् प्रतिप्राप्तम्