एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [विभक्त्यर्थप्र ० १२३१ । राधीक्ष्योर्यस्य विप्रश्नः । (१-४-३९) राधीक्ष्योरत्र शुभाशुभपर्यालोचनमर्थः । तत्र यस्य शुभाशुभे पर्यालोच्येते स संप्रदानम् । विप्रश्नः शुभाशुभसम्बन्धी विविधः प्रश्नः । यथा - गर्गः कृष्णाय राध्यतीक्षते वा - नन्देन पृष्टः कृष्णस्य शुभाशुभरूपं दैवं पर्यालो- चॅयतीत्यर्थः । ३४२ १२३२ । प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता । (१-४-४०) - पूर्वस्य = पूर्वव्यापारस्य । प्रतिश्रवाश्रवावभ्युपगमार्थकौ । येन प्रथमं प्रार्थितः कर्ता अभ्युपगच्छति स संप्रदानम् । यथा— विप्राय गां प्रतिशृणोति आशृणोति वा विप्रेण प्रार्थितः प्रतिजानीत इत्यर्थः । १२३३ | अनुप्रतिगृणश्च । (१-४-४१) पूर्वस्य कर्तेत्यनुवर्तते । अनुगरः प्रतिगरश्च शंसितुः प्रोत्साहनमभिधत्ते । यथा- होत्रे प्रतिगृणाति, अनुगृणाति वा-शंसन्तं होतारं प्रोत्साहयतीत्यर्थः । अथ करणम्- १२३४ । साधकतमं करणम् । (१-४-४२) क्रियासिद्धौ यत् प्रकृष्टोपकारकं तत्कारकं करणसंज्ञं स्यात् । दण्डेन ताडयति परशुना छिनत्ति हस्तेन गृह्णाति । मुष्टिना हन्ति । १२३५ । दिवः कर्म च । (१-४-४३) दिवुधातोः प्रयोगे तु साधकतमं कर्मसंज्ञं स्यात्, चकारात् करणसंज्ञं च | यथा अक्षान् अक्षैर्वा दीव्यति । १२३६ | परिक्रयणे सम्प्रदानमन्यतरस्याम् । (१-४-४४) नियतकालं वेतनादिना भृत्यादेरात्यन्तिकः क्रय एव परिक्रयणम् । तत्र क्रियायां साधकतमं सम्प्रदानं करणं वा स्यात् । यथा- शताय शतेन वा परिक्रीतो भृत्यः | यथा- अथाधिकरणम्- १२३७ । आधारोऽधिकरणम् । (१-४-४५) कर्तुः कर्मणो वा क्रियाश्रयभूतस्य धारणक्रियां प्रत्याधारभूत कारकमधिकरणसंज्ञं स्यात् । यथा- SGDF कटे आस्ते–कर्तुराधारः । स्थाल्यां पचति तण्डुलान् - कर्मण आधारः । - -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३६१&oldid=347956" इत्यस्माद् प्रतिप्राप्तम्