एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४४ 197 लघुपाणिनीये [विभक्त्यर्थप्र दुह्-याच्-पच्-दण्ड्-रुधि-प्रच्छि-चिञ्-चू-शासु-जि-मथ्-मुषाम् । कंर्मयुक्स्यादकथितं तथा स्यान्नी-हृ-कृष्-वहाम् । यथा— गां दोग्धि पयः-३ -गोरित्यपादानमविवक्षितम् । बलिं ययाचे वसुधां - बलेः - " तण्डुलानोदनं पचति—तण्डुलैरिति करणम्,, देवदत्तं शतं दण्डयति – देवदत्तादित्यपादानम्, व्रजमवरुणद्धि गाः- - व्रजे इत्यधिकरणम् माणवकं पन्थानं पृच्छति - माणवकायेति सम्प्रदानम्, वृक्षमवचिनोति फलानि – वृक्षादित्यपादानम्, माणवकं धर्मे ब्रूते शास्ति वा – माणवकायेति सम्प्रदानम्, शतं जयति देवदत्तं (द्यूते) –देवदत्तादित्यपादानम् सुधां क्षीरनिधि मध्नाति - क्षीरनिधेरित्यपादानम्,, " C पान्थं शतं मुष्णाति चोरः – पान्थात् - >> ग्राममजां नयति, हरति, कर्षति, वहति वा - प्रामे इत्यधिकरणम् । अर्थनिबन्धनेयं परिगणना । तेन बालं भिक्षते, प्रार्थयते वसुधाम् इत्याद्यूह्यम् । १२४४ । गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ । (१-४-५२) अणौ अण्यन्तावस्थायां केवलक्रियायां कर्ता अणिकर्ता । (स इति कर्ता परामृश्यते) सणौ णिसहितायामवस्थायाम् । गतिबुद्धि- भुक्त्यर्थानां शब्दकर्मकाणाम् अकर्मकाणां च धातूनाम् अण्यन्तावस्थायां कर्ता ण्यन्तावस्थायां कर्म स्यात् । उक्तानां क्रियाणां प्रयोज्यकर्ता कर्म स्यादित्यर्थः । यथा- 66 'शत्रूनगमयत् स्वर्ग वेदार्थं स्वानवेदयत् । आशयच्चामृतं देवान्वेदमध्यापयद्विधिम् ॥ आसयत् सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः ।” गत्यर्थादिभिन्नानां तु कर्तरि तृतीयैव । यथा-- पाचयत्योदनं देवदत्तेन ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३६३&oldid=347958" इत्यस्माद् प्रतिप्राप्तम्