एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [विभक्त्यर्थप्र ० - तत्प्रयोजको हेतुश्च । (१-४-५५) (व्याख्यातम् ७७९) । यथा- पाचयत्योदनं देवदत्तेन यज्ञदत्तः । गुरुः शिष्यान् शास्त्रमध्यापयति । ३४६ नाम्नां क्रियया संबन्धो हि कारकव्यपदेशस्य निमित्तम् । स च दूर आसन्नो वा भवति । तत्र अपादानस्य दविष्ठः संबन्धः, ततः संप्रदान-करण-अधिकरण-कर्म-कर्तॄणाम् इति दूरताया अवरोहेण, आसत्ते- रारोहेण वा क्रमः । अत्र प्रथमं क्रममुपात्तवानाचार्य एकसंज्ञाधिकारे ‘विप्रतिषेधे परं कार्यम्' इति परिभाषाया अनुरोधात् । एवं च यथा यथा संबन्ध आसन्नस्तथा तथा बलीय: कारकमिति सिद्धम् || - अथ कारकाणामर्थे उपपदयोगे च विभक्तयो विधीयन्ते– कारकाणि तावद्विभक्तिभिन्नानां प्रत्ययानामन्येषां चार्थतया दृश्य- न्ते । यथा – लकाराः कर्तृकर्मकारकयोर्विहिताः । कृत्प्रत्ययास्तयोः, ‘करणाधिकरणयोश्च (ल्युट्) ' 'भीमादयोऽपादाने' इत्यन्येष्वपि कारकेषु दृश्यन्ते । तद्धिताः ‘तेन क्रीतं' 'तत आगतः' इति नानाकारकार्येषु भवन्ति । समासाः ‘प्राप्तमुदकं यं स प्राप्तोदको ग्राम' इत्यादौ कारका- र्थेषूपलभ्यन्ते । निपाताश्च सन्ति कर्माद्यर्थेषु साम्प्रतं (युक्तम) इत्या- दय: । एवमन्थथासिद्धे कारकार्थे विभक्तीनां नावसर इति स्पष्टीकर्तुम् अधिकरोत्याचार्यः- - १२४६ । अनभिहिते । (२-३-१) इति । तिङ्कृत्तद्धितसमासनिपातैरनुक्त एव कारके विभक्तयो विधी- यन्त इत्यर्थः । उक्ते पुनः कारके प्रथमा विधास्यते । इह हि पदमेव प्रयोगार्हम् । पदं च सुप्तिङ्प्रत्ययान्यतरान्तम् । अत एव विभक्तियोगा- नर्हेष्वप्यव्ययेषु प्रथमां विभक्तिमुत्पाद्य लोपयन्ति पाणिनीयाः । उक्त- सिद्धान्तानुरोधेनाभिहिते कारके प्रथमा भवति । यथा— देवदत्त ओदनं पचति – लटाभिहिते कर्तरि प्रथमा । SGDF देवदत्तेनौदनः पच्यते- कर्मणि ""

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३६५&oldid=347960" इत्यस्माद् प्रतिप्राप्तम्