एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विभक्त्यर्थप्र ० ] • परिनिष्ठाकाण्ड: । १२४७ । कर्मणि द्वितीया । (२-३-२) - अनभिहिते कर्मणि द्वितीया स्यात् । इह त्रिविधं कर्म संभवति निर्व, विकार्य, प्राप्यं चेति पूर्वमेवोक्तम् । यथा— कटं करोति—निर्वर्त्यम् । वृक्षं तक्ष्णोति विकार्यम् । सूर्यमीक्षते–प्राप्यम् । द्विकर्मकेषु कतरस्य कर्मणोऽभिधानमिति व्यवस्था क्रियते- (१) गौणे कर्मणि दुह्यादेः । (२) प्रधाने नीद्दकृष्वहाम् । (३) बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया । (४) प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः । (१) दुहादीनां द्वादशानाम् 'अकथितं च' इति विहितेऽप्रधाने कर्मणि लकाराः क्तादयश्च भवन्ति । अतस्तत् कर्माभिहितम् । यथा- गौः पयो दुह्यते । बलिर्वसुधां याच्यते । (२) नीहकृष्वहां चतुर्णी प्रधानं कर्माभिहितम् । यथा— अजो ग्रामं नीयते, हियते, कृष्यते, उह्यते वा । (३) 'गतिबुद्धि.' इति विहिते कर्मणि बुद्धिप्रत्यवसानार्थ- शब्दकर्मणां प्रधानमप्रधानं वा यथाविवक्षितमभिहितम् । यथा- वटुर्वेदमध्याप्यते। वेदो वटुमध्याप्यते वा । (४) अन्येषां गत्यर्थाकर्मकहरतिकरोतीनां प्रयोज्यकर्माभिहितम् । यथा - देवदत्तो प्रामं गम्यते । ॥ * ॥ उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु । द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते ॥ उभयतः सर्वतः धिक् एषां, द्विरुक्तानाम् उपरि, अधि, अधस् एषां च उपपदानां योगे द्वितीया वक्तव्या । अन्येषामपि निपातानां योगे द्वितीया दृश्यते इति वार्त्तिकार्थः । यथा— - उभयतो नदीं शाद्वल:- नद्या उभयोः पार्श्वयोरित्यर्थः । सर्वतः कृष्णं गोप्य:- कृष्णस्य समन्तादित्यर्थः। धिक्कृष्णाभक्तं—कृष्णाभक्तो निन्द्य इत्यर्थः । भुवमुपर्युपरि भुवरादयो लोकाः । भुवमध्यधि प्रवाहादयो वायवः । भुवमधोऽधोऽतलादयो लोका: -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३६६&oldid=347961" इत्यस्माद् प्रतिप्राप्तम्