एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विभक्त्यर्थप्र ● ] O परिनिष्ठाकाण्डः । अत्रस्थो धानुष्कः क्रोशात् क्रोशे वा लक्ष्यं विध्येत् — अत्र कर्तृकर्मणोर्मध्येऽध्वा विभक्त्यर्थः । १२५२ । कर्मप्रवचनीययुक्ते द्वितीया । (२-३-८) प्रादिषु केचिदर्थविशेषे कर्मप्रवचनीयसंज्ञा: । तान् प्रकरणान्ते निरूपयिष्यामः । तेषां योगे द्वितीया स्यात् । वृक्षं प्रति विद्योतते विद्युत् इत्यायुदाहरणम् ॥ १२५३ । यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी । (२-३-९) कर्मप्रवचनीययोगे द्वितीयापवादः सप्तमी विधीयते । अधिकमि- त्यर्थे यतोऽधिकं तस्मात सप्तमी । यन्निष्ठमीश्वरत्वं तस्मादपि सप्तमी । यथा- - a impl उप परार्धे हरेर्गुणाः—परार्धादधिका इत्यर्थः । अघि रामे भूः– रामाधीना भूरित्यर्थः । १२५४ । पञ्चम्यपाङ्परिभिः (२-३-१०) एभिः कर्मप्रवचनीयैर्योगे पञ्चमी । यथा— अप परि वा त्रिगर्तेभ्यो वृष्टो देवः— त्रिगर्तान् वर्जयित्वेत्यर्थः । आ पाटलीपुत्रादृष्टो देवः -- पाटलीपुत्रमभिव्याप्य विहाय वा । FT FIER १२५५ । प्रतिनिधिप्रतिदाने च यस्मात् । (२-३-११) यदपेक्षः प्रतिनिधिः प्रतिदानं वा अर्थो गम्यते तस्मात् च पञ्चमी । ‘प्रतिः प्रतिनिधिप्रतिदानयोः' इति विहितस्य प्रतेर्योगे पञ्च- मीति तात्पर्यम् । यथा— अभिमन्युरर्जुनान् प्रति- अर्जुनस्य प्रतिनिधिरित्यर्थः । तिलेभ्यः प्रति यच्छति माषान् - माषैस्तिलान् क्रीणातीत्यर्थः । १२५६ । गत्यर्थकर्मणि द्वितीयाचतुर्थ्यो चेष्टायामनध्वनि । – - (२-३-१२) ३४९ अध्वभिन्ने गत्यर्थानां कर्मणि द्वितीयाचतुर्थ्यो स्तः, चेष्टायां गम्य- मानायाम् । चेष्टा चलनम् । यथा- प्रामं प्रामाय वा गच्छति–अध्ववाचकेभ्यस्तु पन्थानं गच्छति SGDF चेष्टाभावे तुमनसा हरिं व्रजति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३६८&oldid=347963" इत्यस्माद् प्रतिप्राप्तम्