एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.२०
लघुपाणिनीये
३१ । अलोऽन्त्यस्य । (१-१-५२)
आदेशः सर्वोऽपि अन्त्यस्य अलः (=वर्णस्य) कार्यः ।।
३२ । डिच्च । (१-१-५३)
ङकारेण इता चिह्नितोऽप्यादेशः अन्त्यस्यैव कर्तव्यः । पूर्वेणैव
सिद्धे पुनर्विधानमिदं किमर्थमित्यनुपदमेव स्पष्टीभविष्यति ।।
[परिभाषा
३३ । आदेः परस्य । (१-१-५४)
'अलोऽन्त्यस्य' इत्युक्तम् ; किं तु यत्रादेश: कस्मादपि परस्य
विधीयते तत्र तस्य (परस्य) आदेरेव कर्तव्यः ; न त्वन्त्यस्य । यथा-
अहन्शब्दस्य रेफ इति विधौ ‘अहन्' इति शब्दान्त्यस्य नकारस्यादेशः ।
‘उत्' इत्युपसर्गात् परस्य स्तम्भ इत्यस्य तकार इति विधौ तु 'स्तम्भ'
इति शब्दस्यादेः सकारस्यादेशः ।।
३४ । अनेकाल् शित्सर्वस्य । (१-१-५५)
अनेकवर्ण:, शकारेण इता चिह्नितश्चादेशः समग्रस्य स्थानिनः
कर्तव्यः । यथा—'दृश' इति धातो: 'पश्य' इत्यादेश: अनेकाल्त्वात्
समग्र स्थानिनमपनीय तत्स्थानमाक्रामति । एवम् इदंशब्दस्य तृतीयादि-
विभक्तिषु अश इति शिदादेशोऽपि सर्वादेशो भवति । 'अलोऽन्त्यस्य'
इत्यादिभिश्चतुभिः सूत्रैः आदेशानां देशव्यवस्था क्रियते । सा चैवम्-
भावरूप आदेशस्तावत् एकालू, अनेकालू इति द्विविधः । तत्र एकालू
अन्त्यस्य कार्य:, अनेकाल तु सर्वस्य इति सामान्यतो नियमः । अथ
विशेष: – एकाल् अप्यादेश: शिच्चेत् सर्वस्य; यतःकुतश्चित् परस्य
विधीयमानस्तु आदे: ; अनेकालपि ङिच्चे दन्त्यस्येति । तथा च स्वघट-
कानां वर्णानां संख्यैव आदेशस्य देशं व्यवस्थापयति । यत्र पुनस्तव्यभि
चारोऽपेक्षितस्तत्र शकारङकारावनुबन्धौ प्रयुज्येते इति संकेतमाचार्यः
करोति ।।
इति संकेतमाचार्य

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३७&oldid=347402" इत्यस्माद् प्रतिप्राप्तम्