एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विभक्त्यर्थप्र० ] परिनिष्ठाकाण्डः । ३५१ ॥ * ॥ अप्राणिष्वित्यपनीय नौकाकान्नशुकसृगालवर्जमिति वाच्यम् ॥ न त्वां शुने मन्ये, श्वानं वा । नावादिभ्यस्तु द्वितीयैव – न त्वां सृगालं मन्ये । 1 १२६१ । कर्तृकरणयोस्तृतीया । (२-३-१८) यथा— रामेण बाणेन हतो वाली । ॥ * ॥ प्रकृत्यादिभ्य उपसंख्यानम् ॥ यथा - समेन धावति प्रकृत्या चारुः । प्रायेण याज्ञिकः । गोत्रेण गार्ग्यः | ( नाम्ना सुतीक्ष्णः- विषमेण धावति द्विद्रोणेन धान्यं कीणाति - चरितेन दान्तः' १२६२ । सहयुक्तेऽप्रधाने । (२-३-१९) सहार्थकेन युक्ते अप्रधाने तृयीया स्यात् । अप्रयुक्तेऽपि सहार्थके तृतीयेष्यते । पाणिनिरेव हि 'वृद्धो यूना' इति प्रयुक्तवान् । यथा - - - पुत्रेण सहागतः पिता - साकं, सार्धं वा । शिष्यैर्गतो गुरुः -- शिष्यैः सहेत्यर्थः । १२६३ । येनाङ्गविकारः । (२-३-२०) - येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते ततस्तृतीया । यथा - अक्षणा काणः । पाणिना कुणिः । पादेन खञ्जः । १२६४ । इत्थंभूतलक्षणे | (२-३-२१) कश्चित् प्रकारं प्राप्त इत्थंभूतः । तस्य लक्षणमित्थंभूतलक्षणम् । तस्मात् तृयीया स्यात् । यथा- जटाभिस्तापसः – जटारूपलक्षणज्ञापिततापसत्वविशिष्टः । पुस्तकेन विद्वान् — पुस्तकरूप, विद्वत्व काषायेण यती — काषाय यतित्व " "2 १२६५ । हेतौ । (२-३-२३) फलसाधनयोग्यः पदार्थः फलं चात्र हेतुशब्देन विवक्ष्यते । क्रि- यामात्वसाधकं करणमिति करणे तृतीयाया अप्राप्तौ हेतौ तृतीयाविधि- देतो तृतीयाविधि- रयमारभ्यते । यथा- - "3

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३७०&oldid=347965" इत्यस्माद् प्रतिप्राप्तम्