एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [विभक्त्यर्थप्र १२७४ । पृथग्विनानानाभिस्तृतीयान्यतरस्याम् । (२-३-३२) एभिर्योगे तृतीया, पञ्चमी, द्वितीया च स्यात् । यथा - पृथग्देवदत्तात्, देवदत्तेन, देवदत्त वा । विना । इत्यादि । १२७५ । सप्तम्यधिकरणे च । (२-३-३६) अधिकरणे कारके सप्तमी । चकारेण दूरान्तिकार्थेभ्योऽसत्त्व- वाचिभ्यः सप्तमी स्वार्थे विधीयते । अत्रोपेक्षितेन पूर्वसूत्रेण दूरान्तिकार्थे- भ्यः षष्ठीद्वितीयापञ्चम्यो विधीयन्ते । तेन एभ्यः शब्देभ्यः षष्ठी द्वितीया पञ्चमी सप्तमीति चतस्रो विभक्तयो भवन्ति । यथा- • दूरस्य, दूरं, दूरात्, दूरे वा ग्रामस्य नदी । एवं समीपार्थका अप्युदाहार्या: । असत्ववाचिनामेवेत्युक्तेरव्ययसाधार- ण्यात् एते विभक्तिप्रतिरूपकाण्यव्ययानीत्यपि कल्पयितुं शक्यन्ते । अधिकरणे कारके सप्तम्युदाहृतैव । ३५४ ॥ * ॥ क्तस्येन्विषयस्य कर्मणि सप्तम्या उपसंख्यानम् ॥ क्तप्रत्ययान्तेभ्यः 'इष्टादिभ्यश्च' इति इनिप्रत्ययो विधीयते । तद्- न्तस्य कर्मणि सप्तमीत्यर्थः । यथा- इष्टी सर्वमखे, श्रुती श्रुतिशते, तत्त्वे गृहीत्यर्चती, गोविन्दे, पठिती तथानुपठिती शास्त्रेषु सर्वेष्वपि । शत्रौ व्याकुलिती, तथा खलजने दूरं निराकृत्यसौ, मित्रेषूपकृती, विभाति नृपतिर्दीनेषु संरक्षिती ॥

11 ॥ निमित्तात् कर्मयोगे ॥ यथा- ‘चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । वालेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ॥' चर्मादिनिमित्तकं द्वीप्यादिहननमर्थः । निमित्तमिह फलम्, अतश्च हेतौ तृतीयां बाधितुमयमारम्भः । 'कर्मयोगे' इत्यत्र कर्मणा सह संश्लेषरूपो योगो विवक्षितः । अतो योगा- (सम्बन्धा) -न्तरेषु तृतीयैव । यथा— वेतनेन धान्यं लुनाति इत्यादौ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३७३&oldid=347968" इत्यस्माद् प्रतिप्राप्तम्