एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विभक्त्यर्थप्र०] परिनिष्ठाकाण्डः । १२७६ । यस्य च भावेन भावलक्षणम् । (२-३-३७) भावः क्रिया । यख क्रियाश्रयस्य कारकस्य क्रियया क्रियान्तरं लक्ष्यते तस्मात् सप्तमी । यत्र एकखाः क्रियायाः कालः क्रियान्तरपरा- मर्शेन परिच्छिद्यते तत्र लक्षणक्रियाया आश्रयभूतात् कारकात् ( कर्तृ- कर्मणोरन्यतरस्मात्) सप्तमी स्यादित्यर्थः । यथा- – भुञ्जानेष्वस्मास्वतिथिरागतः - कर्तृनिष्टा क्रिया अत्र लक्षणम् । गोषु दुह्यमानासु वृष्टो देवः— कर्म । १२७७ । षष्ठी चानादरे । (२-३-३८) अनादराधिक्ये भावलक्षणे षष्ठीसप्तम्यौ । यथा— रुदतो बन्धुजनस्य प्राव्राजीत्-रुदति बन्धुजन वा । रुदन्त बन्धुजनमनादृत्येत्यर्थः । मिषतां पार्थिवानामहरद्रुक्मिणीं कृष्णः । जाग्रतो मे प्रभाता रजनी । १२७८ । स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च । (२-३-३९) एभिर्योोंगे षष्ठीसप्तम्यौ । षष्ठ्यामेव प्राप्तायां पक्षे सप्तमीविधानार्थं वचनम् । यथा- गवां गोषु वा ईश्वरः, स्वामी इत्यादि । गवां गोषु वा प्रसूतः -

-- गा अनुभवितुं जात इत्यर्थः ।

३५५ १२७९ । आयुक्तकुशलाभ्यां चासेवायाम् । (२-३-४०) आभ्यां योगे षष्ठीसप्तम्यौ तात्पर्येऽर्थे द्योत्ये । आयुक्तो व्यापा- रितः । कुशलः समर्थः । यथा— - आयुक्तः कटकरणे, कटकरणस्य वा - एवं कुशलः । तात्पर्यभिन्ने त्वर्थे—आयुक्तो गौः शकटे ईषयुक्त इत्यर्थः । १२८० । यतश्च निर्धारणम् । (२-३-४१) जातिगुणक्रियासंज्ञाभिः समुदायादेकदेशख पृथक्करणं निर्धा- --जातौ । रणम् । यतो निर्धारणं ततः षष्ठीसप्तम्यौ । यथा- मनुष्याणां क्षत्रियः शूरतमः । मनुष्येषु वा-- गवां कृष्णा बहुक्षीरा । गोषु वा – गुणे । -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३७४&oldid=347969" इत्यस्माद् प्रतिप्राप्तम्