एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५६ लघुपाणिनीये अध्वगानां धावन् शीघ्रतसः । अध्वगेषु वा - शिष्याणां मैत्रः पटुः । शिष्येषु वा -- क्रियायाम् । - संज्ञायाम् । १२८१ । पञ्चमी विभक्ते । (२-३-४२) विभागो विभक्तं, भेद इत्यर्थः । यत्र निर्धारणावर्धिनिर्धार्यमाणं च भिन्नं वस्तुद्वयं तत्र पञ्चम्येव । गुणक्रिययोर्भिन्नद्रव्यनिष्ठयोस्तोलने अवधिभूतादपादानत्वेन प्राप्ताया एव पञ्चम्याः प्रतिप्रसवोऽयम् । यथा- मनुष्येभ्यः श्वापदाः शूरनराः– गुणस्य तोलनम् । कृष्णादश्वाच्छ्रेतो धावतितरां – क्रियायाः । - १२८२ | साधुनिपुणाभ्यामर्चायां सप्तम्यमतेः । (२-३-४३) ॥ * ॥ अप्रत्यादिभ्य इति वक्तव्यम् ॥ आभ्यां योगे सप्तमी, प्रत्यादयो यदि न प्रयुज्यन्ते । पूजार्थश्च यदि द्योत्यते । तत्त्वकथनमात्रे कर्मप्रवचनीययोगे च न स्यादित्यर्थः । यथा- - साधुः कृष्णो मातरि, असाधुर्मातुले एवं निपुणः । तत्त्वकथने तु–साधुर्निपुणो वा राज्ञो भृत्यः । प्रत्यादियोगे च–साधुः कृष्णो मातरं प्रति, अनु वा । [विभक्त्यर्थप्र० "" १२८३ । प्रसितोत्सुकाभ्यां तृतीया च । (२-३-४४) चात्सप्तमी । प्रसितः आसक्तः, उत्सुक उत्कण्ठितः । यथा- केशेषु केशैर्वा प्रसितः– केशविषयकसक्तिमान् । केशेषु केशैर्वा उत्सुकः— औत्सुक्यवान् । १२८४ । नक्षत्रे च लुपि । (२-३-४५) ८ 'नक्षत्रेण युक्तः कालः' इति तद्धितस्य यो लुब्विधीयते तदन्ता- च्छब्दात्तृतीयासप्तम्यौ स्याताम् । यथा- ‘मूलेनावइयेद्देव श्रवणेन विसर्जयेत्’—मूले श्रवणे वा—मूलयुक्त श्रवणयुक्ते च काले इत्यर्थः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३७५&oldid=347970" इत्यस्माद् प्रतिप्राप्तम्