एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [विभक्त्यर्थप्र० तात्पर्यविषयः । द्रोणपरिमितो व्रीहिरित्यर्थे द्रोणो व्रीहिरित्यादिप्रयोगस्तु लक्षणया । एवं सिंहसदृशो माणवक इत्यर्थे सिंहो माणवकः इत्यादिः प्रयोगोऽपि सिध्यति ॥ ३५८ एकं, द्वे, त्रीणि, चत्वारि इति संख्यानवाक्ये संख्यामात्रं विव- क्षितं न तु प्रातिपदिकार्थभूतं संख्येयमिति तद्वचनखोदाहरणम् । प्रवृ- त्तिनिमित्तमात्रे प्रथमार्थ परिमाणवचनग्रहणमिति फलति । इदं च परि माणसंख्याशब्दानां प्रवृत्तिनिमित्तमात्रवृत्तितास्तीति शिक्षणपरम् । तेन यथायोगं विभक्त्यन्तराण्यपि । पणं प्रस्थस्य मूल्यम् । द्वाभ्यां गुणितानि त्रीणि षट् भवन्ति । भावप्रधानाः सर्वे निर्देशा इदमेवानुकुर्वन्ति ।। १२८६ । सम्बोधने च । (२-३-४७) सम्बोधनमाभिमुख्यकरणम् । तदधिके प्रातिपदिकार्थे च प्रथमा स्यात् । यथा -- हरे कृपालो नः पाहि । सर्वे जनाः शृणुत मे वचः । १२८७ । सामन्त्रितम् । (२-३-४८) सम्बोधने या प्रथमा तस्या आमन्त्रितमिति संज्ञा || एकवचनं संबुद्धिः । (२-३-४९) (व्याख्यातम् ) १२८८ । षष्टी शेषे । (२-३-५०) कर्मादिभ्यः प्रातिपदिकार्थाच्च व्यतिरिक्तः स्वस्वाभिभावादिस- म्बन्ध: शेषः । तत्र षष्ठी । यथा- राज्ञः पुरुषः दशरथस्य पुत्रः मर्कटस्य -स्वस्वामिभावः सम्बन्धः । – पितृपुत्रभावः — - लाङ्गूलम्–आङ्गाङ्गिभावः व्यासस्य शिष्यः - गुरुशिष्यभावः " " इह हि सम्बन्धविशेषा एव कारकाणि । सम्बन्धाश्च विवक्षा- धीना: । अतो विवक्षातः कारकाणि भवन्ति । कर्मणः कर्मत्वरूपेण

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३७७&oldid=347972" इत्यस्माद् प्रतिप्राप्तम्