एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विभक्त्यर्थप्र ०] परिनिष्ठाकाण्डः । ३५९ विशेषेणाविवक्षायां शेषत्वात् षष्ठी भवति । एवं करणादीनामपि सम्ब- न्धसामान्यविवक्षायां षष्ठयेव । तत्र ‘अकथितं च' (१२४३) इति सूत्रेण दुहियाच्यादीनामविवक्षितस्यापादानादेः कारकस्य कर्मसंज्ञा विहिता । तद्व्यतिरिक्तानां 'शेषे षष्ठी' भवेत् । यथा- ‘कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे '–कस्मात् । रजकस्य वस्त्रं ददाति — रजकाय । 1 फलानां तृप्यति–फलैः । भजे शम्भोश्चरणयोः—चरणौ । अथ कारकार्थे प्रवर्तमानां ‘शेषे षष्ठीं' मार्गप्रदर्शनाय प्रपञ्च- यत्यष्टभिः सूत्रै :- - १२८९ । ज्ञोऽविदर्थस्य करणे । (२-३-५१) करणस्य शेषत्वविवक्षायां षष्टयनेन विधीयते । प्रयोगवैरल्या- दस्पष्टमुदाहरणम् । १२९० । अधीगर्थदयेशां कर्मणि । (२-३-५२) स्मरणार्थकानां दयेशोश्च शेषत्वेन विवक्षिते कर्मणि षष्ठी । यथा मातुः स्मरति बालः मातरमित्यर्थः । भीरोर्दयते वीरः - भीरुम्, राजा प्रजानामीष्टे -प्रजाः " शेषत्वाविवक्षायां यथाप्राप्ता द्वितीयैव । मातरं स्मरति बालः । १२९१ । कृञः प्रतियने । (२-३-५३) प्रतियत्नो गुणाधानम् । अत्र कृञः सुडात्मनेपदं च विहितम् । यथा—'तेमनान्यन्नस्योपस्कुर्वते – गुणमादधतीत्यर्थः । - १२९२ । कृत्वोऽर्थप्रयोगे कालेऽधिकरणे । (२-३-६४) ‘ संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' 'द्वित्रिचतुर्भ्यः सुच्” १. ‘ रुजार्थाना .....’ इत्यादिसूत्रदशकं नास्यन्तोपयुक्तमित्युपेक्षितम् । शेषषड्या उपलक्षणानि विहितानि कतिचिच्छान्दसानि च ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३७८&oldid=347973" इत्यस्माद् प्रतिप्राप्तम्