एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनी । तच्च द्विविधम् - १३०८ । आङ् मर्यादावचने । (१-४-८९) वर्जनं परिहरणम् । मर्यादावचनमवधिकथनम् अवधित्वेन निर्दिष्टं वस्तु क्रोडीकृत्य, परिहृत्य चेति । तत्र पूर्वस्य अभि विधिरिति, परस्य मर्यादेति च संज्ञे प्रसिद्धे । अत्र वचनग्रहणादुभयमपि विवक्षितम् । अपाङ्परियोगे पञ्चम्युक्ता (१२५४) । यथा— अप परि वा त्रिगर्तेभ्यो वृष्टो देवः– त्रिगर्तान् वर्जयित्वा । - आ मोक्षात् संसारः- मर्यादा । आ सेतोरा च हिमालयात् भारतखण्डः– अभिविधिः । १३०९ । लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः (१-४-९०) लक्षणे– वृक्षं प्रति, परि अनु वा विद्योतते विद्युत् — वृक्षं लक्षीकृत्येत्यर्थः । इत्थंभूताख्याने — भक्तो विष्णुं प्रति, परि अनु वा । (2) [विभक्त्यर्थप्र० - - भागे — यदत्र मां प्रति, परि अनु वा स्यात्तद्देहि — अत्र मत्सम्बन्धिनं भागं देहीत्यर्थः । वीप्सायां — वृक्षं वृक्षं प्रति, परि अनु वा सिञ्चति – एकैकं वृक्षं सिञ्चतीत्यर्थः । - पदद्वित्वेनैव वीप्सायां द्योतितायां कर्मप्रवचनीयत्वं उपसर्गसंज्ञाबाधेन षत्वनिषेधफलकम् । अतः परिसिश्चतीति षत्वं न भवति । १३१० । अभिरभागे । (१-४-९१) लक्षणेत्थंभूतवीप्सासु अभिरप्युक्तसंज्ञः । पूर्ववदेवोदाहरणम् । १३११ । प्रतिः प्रतिनिधिप्रतिदानयोः । (१-४-९२) उदाहृतम् - १२५५ - तमसूत्रे । १३१२ । अधिपरी अनर्थकौ । (१-४-९३) १३१३ । सुः पूजायाम् । (१-४-९४) १३१४ । अतिरतिक्रमणे च । (१-४-९५) एषां गत्युपसर्गसंज्ञाबाधनार्थी कर्मप्रवचनीयत्वम् । तेन च सु- सिक्तम्, अतिसिक्तमिति षत्वनिषेधः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३८३&oldid=347978" इत्यस्माद् प्रतिप्राप्तम्