एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(17452)) logotopto ॥ निरुक्तकाण्डः ॥ शब्दव्युत्पत्तिर्हि निरुक्तकाण्डस्य विषयः । सर्वमपि शब्दजातं धातुभ्यो निष्पन्नं मन्यन्ते नैरुक्ताः, वैयाकरणेषु शाकटायनश्च । अत्र तु धातुभ्यः कृत्प्रत्ययैः नामनिष्पत्तिः, नामभ्य एव तद्धितप्रत्ययैर्नामान्त- रोत्पत्तिरिति द्विविधः शब्दव्युत्पत्तिक्रम एव निरुक्तपदेन विवक्षितः । तत्र कृत्प्रत्यया आख्यातकैः सह प्रक्रियासाधारण्यादष्टाध्याय्यनुरोधाच्च आख्यातकप्रकरणान्तरमेव निरूपिता: । तद्धिता इदानीं निरूप्यन्ते— तद्धितप्रकरणम् ॥ कृतां यथा धातोरुत्पत्तेस्तिङा सह प्रक्रियासाम्यं, तथा तद्धितानां प्रातिपदिकेभ्य उत्पत्तेः सुपा सह प्रक्रियासाम्यं भवति । अतोऽत्र भ- पदसंज्ञे तत्प्रयुक्तकार्याणि चानुसन्धेयानि || कार्यान्तराणि चोच्यन्ते- 'अचो णिति' ' अत उपधायाः' इति वृद्धिस्तद्धितेषु न भवति तस्या अयमपवादः । १३१८ । तद्धितेष्वचामादेः । (७-२-११७) निति णिति च तद्धिते परे अङ्गखाचामादरचो वृद्धिः । न त्वन्त्यस्याचः, नाप्युपधाया अतः । यथा - - ‘तस्यापत्यम्' इत्यर्थे दशरथशब्दात् इञ् इति जिति प्रत्यये कृते 'दाशरथि ' इति अचां मध्ये आद्यस्य वृद्धिः । कृते ‘दाशरणि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३८५&oldid=347980" इत्यस्माद् प्रतिप्राप्तम्