एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७० लघुपाणिनीये [तद्धितकार्याणि डित्वस्य प्रयोजनान्तराभावात् भसंज्ञाभावेऽपि टिलोपो भवति । अतो लुडादेशे 'डा' इत्यस्मिन्परे टिलोपेन 'भविता' इति रूपसिद्धिः । १३४० । नस्तद्धिते । (६-४-१४४) नकारान्तस्य भस्य टेर्लोपस्तद्धिते परे । यथा- उडुलोमन् + इञ्—औडुलोमिः । अतद्धिते तु – राज्ञा, ब्रह्मणा । ॥ * ॥ अव्ययानां प्रायो भमात्रे टिलोपः ॥ यथा – सायम्प्रातर् + इक– सायम्प्रातिकः । पुनः पुनर् + घ्यञ्—पौनःपुन्यम् । एवं बाह्यमित्यादि । प्राय इत्युक्तिः शाश्वतिकः इत्यादिसिद्ध्यर्था ॥ १३४१ । अह्रष्टखोरेव । (६-४-१४५) नान्तत्वात् सर्वत्र प्राप्ते टिलोपे टखयोरेवेति नियमः । यथा - द्व्यहः, त्र्यहः—ट । द्व्यहीनः, व्यहीनः–ख । अन्यत्र आह्निकम् १३४२ । ओर्गुणः । (६-४-१४६) उवर्णान्तस्य भस्य गुणस्तद्धिते । यथा- पाण्डु + अण्—पाण्डवः। मृदु + अण्— मार्दवम् । १३४३ । ढे लोपोऽकवाः । (६-४-१४७) 1 यथा–कमण्डलु + ढक्–कामण्डलेयः । ढ = एय [१०१२] कवास्तु काद्रवेय इति गुण एव । - १३४४ । यस्येति च । (६-४-१४८) इश्च अश्च यम् इति समाहारद्वन्द्वः । यस्य ईति इति च्छेदः । इव- र्णान्तस्य अवर्णान्तस्य च भस्य लोप ईकारे तद्धिते च परे । यथा- । तद्धितः ब्राह्मण + ई—ब्राह्मणी } ई = डी । अत्र ईति इत्यनेन स्त्रीप्रत्ययो ङी एव गृह्यते । तथा च वार्त्तिकम् - अत्रि + एयः— आत्रेयः दशरथ + इञ् – दाशरथिः ॥ * ॥ औङः श्यां प्रतिषेधो वाच्यः ॥ तेन – धन + औ = धन + ई = धने इत्यत्र लोपो न । = -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३८९&oldid=347985" इत्यस्माद् प्रतिप्राप्तम्