एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तद्धितकार्याणि] १३४५ । सूर्यतिष्यागस्त्यमत्स्यानां एषामुपधाया यकारस्यापि लोपः इति तद्धिते च । यथा- तिष्य + अण्——तैषम् । मत्स्य + डी-मत्सी । निरुक्तकाण्ड: । 'मत्स्यस्य ङयां सूर्यागस्त्ययोश्छे ङ्यां च तिष्यपुष्ययोर्नक्षत्र-अणि ' इति शोधितोऽयं लोपविधिर्वात्तिककारेण । य उपधायाः। (६-४-१४९) यथा- १३४६ । हलस्तद्धितस्य । (६-४-१५०) हलः परस्य तद्धितयकारस्य लोप ईति तद्धिते च । यथा— गार्ग्य + ङी—–गार्गी । १३४७ । तुरिष्ठेमेयस्सु । (६-४-१५४) इष्टन्, इमनिच्, ईयसुन् इति तद्धितेषु परेषु 'तृ' प्रत्ययस्य लोपः । यथा—कर्तृ + इष्ट – करिष्टः । दोग्धृ + ईयसी–दोहीयसी धेनुः । इमनिच् तु तृप्रत्ययान्तान्न भवत्येव । तस्येह ग्रहणमुत्तरसूत्रे अनुवृत्त्यर्थम् । १३४८ । टेः । (६-४-१५५) भस्य टेर्लोप इष्टेमेयस्सु । यथा— पटु + इमन्---पटिमन्, + इष्ट – पटिष्टः । + ईयस्–पटीयस् । १३४९ | स्थूलदूरयुवहस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः । (६-४-१५६) एषामिष्ठेमेयस्सु यणादिपरं लुप्यते पूर्वस्य गुणश्च । एषु यवरला- नामुत्तरस्वरसह्कृतानां लोपं कृत्वा तत्पूर्वस्वर गुणः कार्य इत्यर्थः । - स्थूल–स्थविष्ठ । स्थवीयस् । I क्षिप्र–क्षेपिष्ठ । क्षेपीयस् । क्षेपिमन् । दूर – दविष्ट । -दवीयस् ह्रस्व – हसिष्ठ । ह्रसीयस् । – हेपिमन् युवन्– यविष्ठ । – यवीयस् । - -क्षोदिष्ठ । क्षोदीयस् ।—क्षोदिमन् । १३५० । प्रिय-स्थिर-स्फिरो-रु-बहुल-गुरु-वृद्ध-तृप-दीर्घ-वृन्दा- रकाणांप्र-स्थ-स्फ-वर-बंहि-गर-वर्षि-त्रप्-द्राधि-वृन्दाः प्रियस्थिरादीनामिष्ठेमेयस्सु प्रस्थाद्या आदेशाः स्युः । यथा- । (६-४-१५७)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३९०&oldid=347986" इत्यस्माद् प्रतिप्राप्तम्