एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७२ लघुपाणिनी प्रिय—प्रेम । प्रेयस् । प्रेष्ट इत्यादि । प्रियोरुगुरुबहुलदीर्घाणामेव पृथ्वादिपाठादिमनिच् । स्फिर: प्रवृद्धः । तृप्र उत्सुकः । अन्ये प्रसिद्धाः ॥ [तद्धितकार्याणि १३५१ । बहोर्लोपो भू च बहोः । (६-४-१५८) बहोः परेषामिष्ठेमेयसामादिलोपः, प्रकृतेर्भू इत्यादेशश्च । यथा— भूमन् । भूयस् । इष्ठे तु १३५२ । इष्ठस्य यिट् च । (६-४-१५९) यिडित्यागमः । यथा - भूयिष्ठ | - Ahn १३५३ | ज्यादादीयसः । (६-४-१६०) ज्यात् परस्य ईयस आदेः आकार आदेशः । यथा – ज्यायस् । १३५४ । र ऋतो हलादेर्लघोः । (६-४-१६१) हलादेर्लघोर्ऋकारस्य रेफादेश इष्ठेमेयस्सु । पृथु-मृदु-भृश-कृश- दृढ - परिवृढानां षण्णामेव रत्वमिष्यते । यथा- भृश — भ्रशिमन्, भ्रशीयस्, भ्रशिष्ठ इत्यादि । १३५५ । प्रकृत्यैकाच् । (६-४-१६३) १३५८ । संयोगादिश्च । (६-४-१६६) शङ्खिनोऽपत्यं— शाङ्खिनः = शार्ङ्गिणः । वाज्रिणः । । एकाच् भसंज्ञकमिष्ठेमेयस्सु न कञ्चिद्विकारं प्राप्नुयात् । यथा- स्रज् + इष्ठ – स्रजिष्ठ । अत्र स्रग्विन् इति विनो लोपः । CONTES १३५६ । इनण्यनपत्ये । (६-४-१६४) m इन्नन्तमपत्यार्थकभिन्नेऽणि प्रकृत्या स्यात् । 'नस्तद्धिते' इति टिलोपो न स्यादित्यर्थः । यथा— संराविन् + अण्—सांराविणम् । अपत्यार्थके तु—– मेधाविनोऽपत्यं मैधावः । १३५७ । गाधिविधिकेशिपणिगणिनश्च । (६-४-१६५) इन् अणि प्रकृत्या । अपत्यार्थ वचनम् | यथा— गाथिनः, पाणिनः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३९१&oldid=347987" इत्यस्माद् प्रतिप्राप्तम्