एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तद्धितप्रत्ययविधिः] निरुक्तकाण्ड: । १३५९ । अन् । (६-४-१६७) अण्यन् प्रकृत्या स्यात् । ब्रह्मन् + अणू--ब्राह्मणः । १३६० । ये चाभावकर्मणोः । (६-४-१६८) यादौ च तद्धिते अन् प्रकृत्या स्यान्न तु भावकर्मार्थके। यथा- राज्ञोऽपत्यं- -राजन्यः । M सामसु साधुः – सामन्यः । प्रत्यु० – भावकर्मार्थके तु— राज्ञो भावः, कर्म वा राज्यम् । 19 । आत्माध्वानौ खे । (६ ४-१६९) १३६१ आत्मनीनः, अध्वनीनः । m ३७३ 1325 ककी fps WIF अथ तद्धितप्रत्ययविधिः ॥ १३६२ । तद्धिताः । (४-१-७६) आ पञ्चमाध्यायपरिसमाप्तेरधिकारोऽयम् । 'प्रत्ययः' 'परश्च' ‘ङयाप्प्रातिपदिकात्' इत्यधिकारत्रयं वर्तते । इतः परं ङचन्तादाबन्तात् प्रातिपदिकाच्च तद्धिताख्या: प्रत्यया विधीयन्ते । ते च प्रकृतेः परे स्यु- रिति फलितम् ॥ १३६३ । समर्थानां प्रथमाद्वा । (४-१-८२) अयमप्यधिकारः । 'प्राग्दिशो विभक्तिः' (१४८४) इति स्वार्थि कतद्धितविधिं यावत् । समर्थः सङ्गतार्थः, तेषां मध्ये सूत्रे प्रथमनिर्दिष्टा- च्छब्दात्तद्धिताः स्युर्वा इत्यर्थः । इह हि 'तस्यापत्यं' 'तेन रक्तं रागात्' 'तदधीते तद्वेद' 'तदधीते तद्वेद' 'तत आगतः' 'तब भवः' इत्याद्यर्थेषु तद्धिता विधीयन्ते । तत्र अर्थसाङ्गत्य एव प्रत्ययोत्पत्तिः । साङ्गत्येऽपि सूत्रे पूर्वमुपात्तेभ्यः ‘तस्य' 'तेन' 'तत्' इत्यादितच्छब्दपरामृष्टेभ्यः, 6 ' स्त्रीभ्यो ढक्' 'कालाट्ठन्' इत्यादौ यथानिर्देशं स्त्रीप्रत्ययान्तेभ्यः कालवाचिभ्य इत्यादिभ्य एव प्रातिपदिकेभ्यः प्रत्ययाः स्युर्न तु 'अपत्यं' इत्यादौ यथानिर्देशं प्रत्ययान्तेभ्यः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३९२&oldid=347988" इत्यस्माद् प्रतिप्राप्तम्