एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४ लघुपाणिनीये [तद्धितेष्व ‘रक्तम्' इत्यादिभ्योऽर्थवाचिभ्य इत्याशयः । तस्यापत्यम् इति वाक्य- तया, तद्पत्यम् इति समासतया च प्रयोगसिद्ध्यर्थं 'वा' इति तद्धिता विकल्पिताः ।। , एते व्यापका अधिकाराः । एतन्मध्ये व्याप्याश्च सन्ति बहवो ऽवान्तराधिकाराः । एषु 'अण्' ' ठक् 'यत्' इत्यादयः प्रत्यया सामान्येनाधिक्रियन्ते ‘ढक्’ ‘यञ्' ‘इञ्' इत्यादयोऽपवादाश्च प्रतिस् विधीयन्ते । एकैकोऽव्यवान्तराधिकारः पुनरर्थनिर्देशाय व्याप्यतरै क्षुद्रैरधिकारैर्विभज्यते । एवं च यथा भुवस्तलं वर्ष-खण्ड राज्य-जनपद् प्रामादिभिर्विभक्तं तथा तद्धिताश्च व्याप्यव्यापकैरधिकारैर्विभक्ताः एषु प्रसिद्धा नित्योपयुक्ताश्च कतिचिदेवात्र निरूप्यन्ते || । प्रत्ययार्थो यत्र विशेष्यं स विशेष्यतद्धितः । यत्र विशेषणं, स विशेषणतद्धितः । यत्त प्रकृत्यर्थे, स स्वार्थिकतद्धितः इति तद्धितस्य त्रय विभागा: सम्भवन्ति । तत्र प्रथमं विशेष्यतद्धिता: -- - - १३६४ । माग्दीव्यतोऽण् । (४-१-८३) ‘तेन दीव्यति...' इति यावदण्प्रत्ययाधिकारः । अयं 'तस्या पत्यं' 'तेन रक्तं रागात्' इत्यादीनवान्तरानधिकारान् क्रोडीकरोति ते चैवं परिगणिताः प्रक्रियासर्वस्वे- “ अपत्यं, रक्तयुक्ते, च दृष्टं, परिवृतोद्धृते, । संस्कृतं, पौर्णमासी, च देवता-व्यूह-नीवृतः ॥ आदिः, प्रयोजनं, योद्धा, तथा प्रहरणं, क्रिया, । अधीते, वेदास्ति, निर्वृत्तावासादूरसम्भवाः ॥ शेषो, जातः, कृतो, लब्धः, क्रीतः, कुशल, इत्यपि । अनित्यभवसम्भूतौ साधुः पुष्यति पच्यते ॥ उप्तं, देयं, रौति, सोढं भवो, व्याख्यान, मागतः, प्रभवत्ये, ति, निष्क्रामत्य, धिकृत्यकृतस्तथा ॥ मागतः,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३९३&oldid=347989" इत्यस्माद् प्रतिप्राप्तम्