एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सद्धितेष्वण् ] निरुक्तकाण्डः । निवासो, ऽभिजनो, भक्तिः, प्रकर्षेणोक्तमेकदिक् । उपज्ञातः, कृत, इदं, विकारो, ऽवयवश्च ते ॥” १३६५ । अश्वपत्यादिभ्यश्च । (४-१-८४) अण् प्राग्दीव्यतीयेष्वर्थेषु । उत्तरसूत्रेण ण्यप्रत्यये प्राप्ते वचनमिदम् । यथा – अश्वपतेरपत्यादिः आश्वपतः । ÉP - १३६६ । दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः । (४-१-८५) प्राग्दीव्यतीयेष्वर्थेषु अणोऽपवादो ण्यः । यथा- दितेरपत्यादिदैत्य इत्यादि । १३६७ । स्त्रीपुंसाभ्यां नञ्तत्रौ भवनात् । (४-१-८७) 'धान्यानां भवने' इति यावत् स्त्रीशब्दात् नन्, पुंशब्दात् नन् च अधिक्रियते । यथा— स्त्रिया अपत्यादिः स्त्रैणः, पुंसः पौंस्नः । १३६८ । द्विगोर्लुगनपत्ये । (४-१-८८) - द्विगुसमासात् प्रवृत्तस्य प्राग्दीव्यतीयस्य तद्धितस्य लुकू, न त्वपत्याधिकारोक्तस्य । यथा— पञ्चसु कपालेषु संस्कृतः पञ्चकपालः – अत्र 'संस्कृतं भक्षा' इत्यर्थे उत्पन्नस्य प्रत्ययस्य लुक् । द्वौ वेदावधीते इति द्विवेदः – अत्र 'तदधीते' इत्यर्थे उत्पन्नस्य तद्धितस्य लुक् । - ३७५ ८ - १३६९ । तस्यापत्यम् । (४-१-९२) तस्येति षष्ठयेव विवक्ष्यते न तु लिङ्गवचने । षष्ठीसमर्थात् प्रातिपदिकादपत्येऽर्थे अणप्रत्ययः, दित्यदित्यादिभ्यो ण्यः, स्त्रीपुंसाभ्यां नञ्स्नत्रौ च । यथा- - उपगोरपत्यम् इत्यर्थे उपगुशब्दात् अण् । उपगु + अ इति स्थिते 'ओर्गुणः (१३४२) इति प्रकृत्यन्त - उकारस्य गुणः । 'तद्धितेष्वचामादेः' (१३१८) इति आद्य- उकारस्य वृद्धिश्च, औपगव इति तद्धितरूपम् । तद्धितान्तत्वेन प्रातिपदिकत्वात् पुंसि औपगवः औपगवौ इत्यादि विभक्तयः । स्त्रीत्वविवक्षायां 'टिड्ढाणञ्...' इति ङीपि औपगवी औपगव्यौ इत्यादि रूपाणि । एवं अङ्गिरसोऽपत्यम् – आङ्गिरसः

मरीचेरपत्यम् –मारीचः– 'यस्येति च ' (१३४४) इतीकारलोपः । -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३९४&oldid=347990" इत्यस्माद् प्रतिप्राप्तम्