एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७६ लघुपाणिनीये १३७० । एको गोत्रे । (४-१-९३) - ‘अपत्यं पौत्रप्रभृति गोत्रम्' इति गोत्रलक्षणम् । तस्मिन् गोला- पत्ये विवक्षिते प्रत्यपत्यं भेदेन प्रत्ययोत्पत्तिप्रसङ्गे नियमः क्रियते । गोत्रापत्यविवक्षायामेक एव प्रत्यय इति । कूटस्थस्य पौत्रप्रभृतय एकेनैव प्रत्ययेनोच्यन्त इति फलितम् । यथा- गर्गस्यापत्यं गार्गिः । गार्गेरपत्यं गार प्रप्रपौत्रादिरपि गार्ग्य एव । TOUTES गार्ग्यः । गार्ग्यस्य पुत्रः, पौत्रः, प्रपौत्रः, TIR १३७१ । गोत्राद्यून्यस्त्रियाम् । (४-१-९४) 'जीवति तु वंश्ये युवा' इति युवा निरुक्तः । यून्यपत्ये विव- क्षिते गोत्रादेव प्रत्ययो न तु कूटस्थात् । स्त्रियां तु कूटस्थादेव । युवा गार्ग्यायणः । स्त्रियां तु गार्गी | यथा- गर्गस्यापत्यं SP - -Taime १३७२ । अत इञ् । (४-१-९५) अदन्तात्तस्यापत्यमित्यर्थे अणोऽपवाद इञ् । यथा- दशरथखापत्यं दाशरथिः । दक्षस्यापत्यं दाक्षिः । [तद्धितेष्वण् १३७३ । गर्गादिभ्यो यञ् (गोत्रे) । (४-१-१०५) गर्गस्य गोत्रापत्यं गार्ग्यः । एवं वात्स्यः, आगस्त्यः इत्यादि । OPER १३७४ । शिवादिभ्योऽण् । (४-१-११२) अत इञोऽपवादः । शिवस्यापत्यं शैव इत्यादि । ww १३७५ । स्त्रीभ्यो ढक् । (४-१-१२०) ढक् । विनता–वैनतेयः । स्त्रीप्रत्ययान्तेभ्यो PITSRES १३७६ | जनपदशब्दात् क्षत्रियादञ् । (४-१-१६८) जनपदशब्दो यः क्षत्रियवाची तस्मादपत्येऽर्थे अन् । यथा— पाञ्चाल:, वैदेहः । १३७७ । ते तद्राजा: । (४-१-१७४) जनपदशब्दात् क्षत्रियवाचिनो विहिताः प्रत्ययास्तद्राजाख्याः । ताजाच्या

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३९५&oldid=347991" इत्यस्माद् प्रतिप्राप्तम्