एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तद्धितेष्वण्] निरुक्तकाण्ड: । १३७८ । कम्बोजाल्लुक । (४-१-१७५) कम्बोजादिभ्यस्तद्राजप्रत्ययस्य लुक् । यथा- कम्बोजानां राजा कम्बोजः । एवं चोलः, केरलः, शक इत्यादि । १३७९ । नक्षत्रेण युक्तः कालः । (४-२-३) अस्मिन्नर्थे तृतीयासमर्थादण् । नक्षत्रेण कालस्य योगश्चन्द्रद्वारेण । यथा— पुष्येण (पुष्यस्थेन चन्द्रेण) युक्तं दिनं पौषम् । अत्र ‘तिष्य- पुष्ययोर्नक्षत्र-अणि' (१३४५) इति यलोपः || 201 १३८० । लुबविशेषे । (४-२-४) कालविशेषवाचिनः पदस्याप्रयोगे 'नक्षत्रेण युक्तः कालः' इति विहितस्याण्प्रत्ययस्य लुप् । लुपशब्देन लोपे विशेष उक्त:- १३८१ । लुपि युक्तवद्वयक्तिवचने । (१-२-५१) लुपा लोपे प्रकृतेरेव लिङ्गवचने अवतिष्ठेते । इति । यथा - अद्य पुष्यः। अद्य पुनर्वसू । अद्य कृत्तिकाः । १३८२ | तस्य समूहः । (४-२-३७) अण् । यथा—बकानां समूहो बाकम् । TRIPYH १३८३ । भिक्षादिभ्योऽण् । (४-२३८) पृथग्विधानं बाधकबाधनार्थम् । भैक्षम् । गार्भिणं, यौवतं, पादातम् इत्यादि । 1323 PRE PROPIE १३८४ | ग्रामजनबन्धुभ्यस्तल् । (४-२-४३) ३७७ ॥ * ॥ गजसहायाभ्यां चेति वक्तव्यम् ॥ ग्रामाणां समूहो ग्रामता इत्यादि । १३८५ । अचित्तहस्तिनोष्ठक । (४-२-४७) १. युक्त-व्यक्ति-वचनशब्दाः प्रकृति लिङ्ग-संख्यानां वाचकाः । - 16/02/fe

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३९६&oldid=347992" इत्यस्माद् प्रतिप्राप्तम्