एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तद्धितेष्वण ] निरुक्तकाण्डः । १३९३ । नद्यादिभ्यो ढक् । (४-२-९७) यथा – नद्यां जातादि — नादेयम् । - १३९४ । दाक्षिणात्यः । पाश्चात्यः । पौरस्त्यः । दक्षिणापश्चात्पुरसस्त्यक् । (४-२-९८) १३९५ । अव्ययात्त्यप् । (४-२-१०४) अमेहक्वतसिल्त्रेभ्य एव । अमात्यः । इहत्यः इत्यादि । १३९६ । वृद्धाच्छः । (४-२-११४) वृद्धसंज्ञाच्छन्दाजाताद्यर्थे छः (= ईय:, १०५२) । वृद्धसंज्ञा च प्रथमाध्याये विहिता । यथा -- ३७९ १३९७ । वृद्धिर्यस्याचामादिस्तवृद्धम् । (१-१-७३) यस्य शब्दस्य स्वरेष्वाद्यः आ ऐ औ वा स वृद्धसंज्ञः । ॥ * ॥ वा नामधेयस्य वृद्धसंज्ञा वाच्या ॥ १३९८ । त्यदादीनि च । (१-१-७४) त्यदादीनि सर्वनामानि च वृद्धसंज्ञानि । इति । यथा- भानौ जातादि — भानवीयम् । शैले जातादि- शैलेयम् । देवदत्ते जातादि- देवदत्तीयम् । एवं तदीयं, यदीयं, किमीयम् अदसीयमित्यादि । 'युष्मदस्मदोरेकवचने' 'प्रत्ययोत्तरपदयोश्च' (३५२) इति त्वादेशः—त्वदीयं, मदीयम् । बहुत्वे तु युष्मदीयम्, अस्मदीयम् । १३९९ । भवतष्ठक्छसौ । (४-२-११५) छस्यापवादः । छसः सित्त्वात् 'सिति च' (१९१) इति पदसं- ज्ञायां जश्त्वेन तकारस्य दः, भवदीयम् । तान्तत्वात् 'इसुसुक्तान्तात् कः' (१३८७) इति ठस्य कादेशः, भावत्कम् ॥ १४०० । युष्मदस्मदोरन्यतरस्यां खञ्च । (४-३-१) F चकाराच्छः । अन्यतरस्यामित्युक्तेः पक्षे अण् । - -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३९८&oldid=347994" इत्यस्माद् प्रतिप्राप्तम्