एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८० लघुपाणिनीये १४०१ । तस्मिन्नणि च युष्माकास्माकौ । (४-३-२) खञ्यणि च युष्मदस्मदोर्युष्माकास्माकावादेशौ B रूपमेव ॥ १४०२ । तवकममकावेकवचने । (४-३-३) खञ्यणि चेत्येव । अथ सूत्रत्रयमुदाहियते- । छे तु यथास्थितं 82ES युष्माकं युवयोर्वा इदं - यौष्माकीणं, यौष्माकं, युष्मदीयम् । अस्माकम् आव- योर्वा इदम्—आस्माकीनम् आस्माकम् अस्मदीयम् । तवेदं - तावकीनं, तावकं, त्वदीयम् । ममेदं—मामकीनं, मामकं, मदीयम् । , १४०३ । कालाट्ठञ् । (४-३-११) कालविशेषवाचकात् शैषिक: ठञ् । यथा- प्रभाते जातादि प्राभातिकम् । अहनि-आह्निकम् । [तद्धितवण् - १४०४ । सन्धिवेलाद्यूतुनक्षत्रेभ्योऽण् । (४-३-१६) सन्धिवेलादिर्गणः- सान्धिवेलं, सान्ध्यम् । शारदं, पौषम् इत्यादि । १४०५ । सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्टयुट चुलौ तुट् च । (४-३-२३) अव्ययेभ्य: सायंप्रभृतिभ्यः टयुटयुलौ प्रत्ययौ तुडागमञ्च तत्सं- नियोगेन । टयुटयुलाविति द्वयोर्ब्रहणं स्वरे भेदार्थम् । टित्त्वं ङीबर्थम् । ‘यु' इत्यंशस्य अनादेशः । स तुडागमेन 'तन' इति जायते सायन्तनं, चिरन्तनं, प्रगेतनम् इत्यादि । एते शेषाधिकारे अथ शैषिकाणामर्था: समर्थविभक्तयश्च निर्दिश्यन्ते- श्र सामान्यप्रत्ययाः । १४०६ । तत्र जातः । (४-३-२५) मथुरायां जातो माथुरः । ग्रामे ग्राम्यो ग्रामीणो वा इत्यादि । १. ‘अह्नष्टखोरेव ’ (१३४१) इति टिलोपनियमादल्लोपः । 1485 1-15 1 १४०७ । तत्र भवः । (४-३-५३) (१) मथुरायां भवो माथुरः । ग्राम्यः, ग्रामीण इत्यादि । ISGDE 5

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३९९&oldid=347995" इत्यस्माद् प्रतिप्राप्तम्