एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तद्धितेष्वण् ] निरुक्तकाण्डः । १४०८ । दिगादिभ्यो यत् । (४-३-५४) दिशि भवं-दिश्यम् । दिश, पक्ष, पूग, गण, रहस् इत्यादि । १४०९ । शरीरावयवाच्च । (४-३-५५) भवार्थे यत् । कण्ठे भवं – कण्ठ्यम् । मूर्धन्यम्, तालव्यम् इत्यादि । १४१० । तत आगतः । (४-३-७४) मथुराया आगतो माथुरः । ग्राम्यः ग्रामीण इत्यादि । १४११ । ऋतष्ठञ् । (४-३-७८) होतुरागतं हौतृकम् । भ्रातृकम्, मातृकम् इत्यादि । १४१२ । पितुर्यच्च । (४-३-७९) पितुरागतं पित्र्यं, पैतृकम् । १४१३ । तस्येदम् । (४-३-१२०) षष्ठीसमर्थात् सम्बन्धिसामान्ये अण् । प्रामादिभ्यो यदादयश्च । यथा- -भगवत इदं – भागवतम् । ग्रामस्येदम् – ग्राम्यं, ग्रामीणम् । देवदत्तस्येदं दैवदत्तं देवदत्तीयं वा । तस्येदं – तदीयम् इत्यादि । - "} 201 १४१४ । तस्य विकारः । (४-३-१३४) सुवर्णस्य विकारः सौवर्णम् इत्यादि । १४१५ । अवयवे च प्राण्योषाधिवृक्षेभ्यः । (४-३-१३५) वक्ष्यमाणेभ्यस्तस्यावयव इत्यर्थेऽपि विकारप्रत्ययाः स्युः । यथा- मयूरस्य विकारोऽवयवो वा मायूरः । दूर्वाया दौर्वः करीरस्य कारीरः । १४१६ । मयद्वैतयोर्भाषायामभक्ष्याच्छादनयोः । (४-३-१४३) भक्ष्याच्छादनवर्जितयोर्विकारावयवयोः षष्ठीसमर्थात् प्रातिपदि- कात् वा मयट् । पक्षे यथाप्राप्तम् । यथा- अश्मनो विकारावयवौ आश्मनम् आइमो वा अश्ममयं वा । " >> ३८१ - (अश्मनो विकारे टिलोपो वा)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४००&oldid=347996" इत्यस्माद् प्रतिप्राप्तम्