एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तद्धितेषु यत् ] निरुक्तकाण्डः । १४२२ । प्रहरणम् । (४-४-५७) धनुः प्रहरणमस्य- धानुष्कः । पारश्वधिकः । इति प्राग्वहतीयष्ठगधिकारः ॥ अथ प्राग्घितीयो यत् ॥ १४२३ । प्राग्घिताद्यत् । (४-४-७५) इह 'तत्र साधु: ' इत्येवार्थो बहुविषयकः ॥ - ३८३ १४२४ । तद्वहति रथयुगप्रासङ्गम् । (४-४-७६) रथं वहति-रथ्यः । युगं - युग्यः । प्रासङ्गं - प्रासङ्ग्यः । - १४२५ । धुरो यड्ढकौ । (४-४-७७) धुर्यः । धौरेयः । १४२६ । नौ वयो-धर्म-विष-मूल-मूल-सीता-तुला-भ्यस्तार्य-तुल्य- प्राप्य-वध्या-नाम्य-सम-समित-संमितेषु । (४-४-९१) नावा तार्या नाव्या नदी– 'वान्तो यि प्रत्यये' इत्यावादेशः । वयसा तुल्यो वयस्यः इत्यादि । १४२७ । धर्मपथ्यर्थन्यायादनपेते । (४-४-९२) धर्मादनपेतं – धर्म्यम् । पथः पथ्यम् । अर्थादर्थ्यम् । १४२८ | हृदयस्य प्रियः । (४-४-९५) हेयः । १४२९ । तत्र साधुः । (४-४-९८) १४३० । पथ्यतिथिवसतिस्वपतेर्टञ्। (४-४-१०४) पाथेयम् । आतिथेयः । वासतेयी । स्वापतेयम् । इति प्राग्घितीये यदधिकारः ॥ १. ‘हृदयस्य हृल्लेख-यद्-अण्-लासेषु’। (६-३-५०) । इति हृदादेशः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४०२&oldid=347998" इत्यस्माद् प्रतिप्राप्तम्