एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तद्धितप्रकीर्णकाः] निरुक्तकाण्डः । ३८७ समीपमुपोत्तमम् । यकारोपधात् गुरूपोत्त- त्रिप्रभृतीनामन्तस्य माहुञ् भावकर्मणोः । यथा— - - रमणीय – रामणीयकम् । कमनीय – कामनीयकम् । आचार्य – आचार्यकम् । सहाय — साहायकम् । १४५३ । द्वन्द्वमनोज्ञादिभ्यश्च । (५-१-१३३) शिष्योपाध्याय – शिष्योपाध्यायिका – स्त्रीत्वं लोकात् । मनोज्ञ – मानोज्ञकम् । प्रियरूप — प्रैयरूपकम् इत्यादि । – इति भावकर्मीयाः नस्त्रजोरवधिश्च गताः ॥ इतः परं प्रत्यया नाधिक्रियन्ते । केचित् प्रकीर्णका:- १४५४ । तदस्य सञ्जातं तारकादिभ्य इतच् । (५-२-३६) तारका अस्य सञ्जाता तारकितं नभः । तारका, पुष्प, मुकुल, कण्टक, सुख, दुःख, कुट्मल, रोग, व्याधि इत्यादि । १४५५ । प्रमाणे द्वयसज्दघ्नञ्मावचः । (५-२-३७) तदस्य प्रमाणमित्यर्थे द्वयसजादयः । तत्र द्वयसज्दघ्नचावूर्ध्व- मान एव । मात्रचू तु सार्वत्रिक इति विवेकः । यथा- ऊरुद्वयसं ऊरुदघ्नं वा नद्यां जलम् । अङ्गुष्ठमात्रः पुरुषः । क्रोशमात्रो मार्गः । १४५६ । यत्तदेतेभ्यः परिमाणे वतुप् । (५-२-३९) यत् परिमाणस्य यावत् । तावत् । एतावत् । – 'आ सर्वनाम्नः' (११२२) इत्याकारोऽन्तादेशः । - १४५७ । किमिदंभ्यां वो घः । (५-२-४०) आभ्यां वतुप् तस्य च वकारस्य घादेशः | घ = इय | वतुप् = – - धतुप् = इयतुप् । ‘ इदंकिमोरीशकी' (११२१) इति इदुम ईशू सर्वा- देशः । तस्य च ‘यस्येति च' इति लोपे प्रत्यय एवावशिष्यते- -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४०६&oldid=348002" इत्यस्माद् प्रतिप्राप्तम्