एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८८ ई + इयत् = इयत् । किम: कियत् केनापि श्लेषकविना गीतोऽयं श्लोकः- लघुपाणिनीये [तद्धितपूरण्यः । इयच्छब्दस्य विचित्रां व्युत्पत्तिमधिकृत्य “उदितवति परस्मिन् प्रत्यये शास्त्रयोनौ गतवति विलयं च प्राकृतेऽपि प्रपञ्चे । सपदि पदमुदीतं केवलप्रत्ययं यत् तदियदिति मिमीते को हृदा पण्डितोऽपि ॥” १४५८ । किमः संख्यापरिमाणे डति च । (५-२-४१) का · सङ्ख्या परिमाणमेषां कति, कियन्तो वा ब्राह्मणाः । दशतयं, चतुष्टयम् इत्यादि । - १४५९ । संख्याया अवयवे तयप् । (५-२-४२) सोऽस्यावयव इत्यर्थे संख्यावाचकात्तयप् । पञ्चावयवा अस्य पञ्चतयम् । १४६० । द्वित्रिभ्यां तयस्यायज्वा । (५-२-४३) द्वाववयवावस्य द्वयं, द्वितयं वा । एवं त्रयं, त्रितयम् । १४६१ । तदस्मिन्नधिकमिति दशान्ताड्डः । (५-२-४५) एकादश अधिका अस्मिन्नित्येकादशं शतं, सहस्रं वा । एवं द्वादशं, त्रयोदश- मित्यादि । शतसहस्रयोर्विशेष्यत्व एव । १४६२ । शदन्तविंशतेश्च । (५-२-४६) त्रिंशं शतं ; विंशं सहस्रम् इत्यादि । यथा- अथ पूरणीप्रत्ययाः ॥ १४६३ । तस्य पूरणे डट् । (५-२-४८) षष्ठीसमर्थात् संख्यावाचिनो डट् पूरणेऽर्थे । डित्वाट्टिलोपः SGDF एकादशानां पूरण एकादशः । द्वादशः, त्रयोदशः इत्यादि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४०७&oldid=348003" इत्यस्माद् प्रतिप्राप्तम्