एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विभक्तितद्धिता:] अदन्तादिनिठनौ दण्डोऽस्यास्तीति–दण्डी, छत्रमस्यास्तीति —छत्री, छत्रिकः, छत्रवान् । ॥ * ॥ १. एकाक्षरात् — यथा— २. कृतो ३. जातेः निरुक्तकाण्डः । वा पक्षे मतुप् । यथा- दण्डिकः, अन्यतरस्यामित्यधिकारात् दण्डवान् । "" - 66 6 स्ववान् । कारकवान् । COL व्याघ्रवान् । ४. सप्तम्यां च न तौ स्मृतौ–दण्डः अस्यामस्तिं दण्डवान् । १४८२ । अस्मायामेधास्रजो विनिः । (५-२-१२१) असन्तान्मायादिभ्यश्च विनिः । यशस्वी, तरस्वी, मायावी । 1 १४८३ । अर्शआदिभ्योऽच् । (५-२-१२७) अर्शसः, पलितः, कर्दमः इत्यादि । आकृतिगणः । ‘तदस्यास्त्यस्मिन्निति मतुप्' इति सूत्रे इतिशब्दस्य प्रयोजनं व्याख्यातं पूर्वाचार्यैः । यथा— ३९१ 'भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥” - यथा— भूम्नि–गोमान् । निन्दायां – पुण्ड्री माली वा पुरुषः । प्रशंसायां- रूपवती कन्या, बुद्धिमान् बाल: । नित्ययोगे—क्षीरिणो वृक्षाः । अतिशायने – उदरिंणी कन्या । संसर्गे — छत्री दण्डी पान्थः ॥ इति मत्वर्थीयाः । ‘समर्थाना’मिति ‘प्रथमा' दिति चाधिकारयोर्गतोऽवधिः । वेति तु वर्तते एव । अथ विभक्तितद्धिताः ॥ १४८४ । प्राग्दिशो विभक्तिः । (५-३-१) दिक्छब्देभ्यः सप्तमी ' इत्यतः प्राग्विधास्यमानाः प्रत्य- या विभक्तिसंज्ञाः स्युः । 'त्यदादीनामः', 'न विभक्तौ तुस्माः' दिप्रक्रियासमावेशार्थकः संज्ञाविधिः । अव्ययान्येतानि || इत्या- दुस्साः' इत्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४१०&oldid=348007" इत्यस्माद् प्रतिप्राप्तम्