एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९२ लघुपाणिनीये [विभक्तितद्धिता: १४८५ । किंसर्वनामबहुभ्योऽव्यादिभ्यः । (५-३-२) विभक्तितद्धिताः सर्वनामभ्यो बहुशब्दाच्च स्युः । किंशब्दवर्जिते- भ्यो व्यादिभ्यस्तु न ॥ १४८६ । इदम इश् । (५-३-३) विभक्तितद्धिते परे इदम इशादेशः ।। १४८७ । एतेतौ रथोः । (५-३-४) रेफथकाराद्योः प्रत्यययोरिदम 'एत' 'इत्' इत्यादेशौ यथासं- ख्यं स्तः । इशोऽपवादः ॥ १४८८ । एतदोऽन् । (५-३-५) – विभक्तिर्तद्धिते परे । १४८९ । सर्वस्य सोऽन्यतरस्यां दि । (५-३-६) सर्वशब्दस्य 'स' इत्यकारान्त आदेशो वा दादौ विभक्तितद्धि- ते । एवं प्रक्रियाविशेषानुक्त्वा प्रत्ययान् विदधाति— १४९० । पञ्चम्यास्तसिल् । (५-३-७) किंसर्वनामबहुभ्यः पञ्चम्यन्तेभ्यस्तसिलप्रत्ययो वा । त्यदाद्यत्वम्। तद्—ततः । यद्—यतः । इदम इश् — इतः । एतदोऽश्— अतः, सर्वतः अन्यतः, पूर्वत इत्यादि । किंशब्दस्य 'किमः कः' इत्यखापवादत्वेन १४९१ । कु तिहोः । (७-२-१०४) १४९२ । काति । (७-२-१०५) इति कु - क्व - आदेशयोर्विधानात्तसिलि कुतः इति रूपम् ॥ १४९३ | तसेच । (५-३-८) ‘प्रतियोगे पञ्चम्यास्तसि: ' ' अपादाने चाहीयरुहोः' इति वक्ष्य माणस्य तसेच किंसर्वनामबहुभ्यस्तसिलादेशो विधीयते । विभक्तिकार्य प्रापणार्थमयमायासः । कुतः, ततः इत्यादि | १४९४ । सप्तम्यास्त्रल् । (५-३-१०) GDF कुत्र, बहुत्र, तत्र, सर्वत्र, अत्र, अमुत इत्यादि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४११&oldid=348008" इत्यस्माद् प्रतिप्राप्तम्