एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विभक्तितद्धिता:] निरुक्तकाण्ड: । १४९५ | इदमोहः । (५-३-११) त्रलोऽपवादः । इदम इश्—इह । १४९६ । किमोऽत् । (५-३-१२) १ अयं विशेषविधिरेव । न तु त्रलोऽपवादः । 'क्वाति ' इति किमः क्वादेशः । ‘यस्येति च' इत्यकारलोपः–क्व ॥ १४९७ । इतराभ्योऽपि दृश्यन्ते । (५-३-१४) विभक्त्यन्तरेऽपि उक्ता विभक्तितद्धिता भवन्ति । ततोभवान्, तत्रभवान्, अतोभवान्, अत्रभवान्, इहभवान् इत्यादयः पूजार्थका अनेन सिध्यन्ति ॥ १४९८ । सर्वैकान्यकिंयत्तदः काले दा । (५-३-१५) सर्वादिभ्यः कालेऽर्थे दाप्रत्ययस्त्रलोऽपवादः । सर्वदा । 'सर्वस्य सोऽन्यतरस्यां दि '—सदा, एकदा इत्यादि । १४९९ । इदमो र्हिल् । (५-३-१६) एतर्हि 'एतेतौ रथोः' । १५०० । अधुना । (५-३-१७) अधुना - इशादेशे ‘यस्येति’ लोपः। १५०१ । दानीं च । (५-३-१८) इदानीम् । १५०२ । तदो दा च । (५-३-१९) तदानीम् । तदा । १५०३ । अनद्यतने र्हिलन्यतरस्याम् । (५-३-२१) किंसर्वनामबहुभ्यः इत्येव । कर्हि, कदा । यहिं, यदा । तर्हि, तदा । १५०४ । सद्यः परुत्परार्यैषमः परेद्यव्यद्यपूर्वेयुरन्येयुरितरेयुरधरेषु- रुभयेयुरुत्तरेयुः । (५-३-२२) सप्तम्याः काले एते निपात्यन्ते । यथा- समानेऽहनि–सद्यः । पूर्वेऽब्दे - परुत् । पूर्वतरे - पररि । वर्तमाने-ऐषमः । परस्मिन् दिने–परेद्यवि । अस्मिन् दिने-अद्य | शेषेषु दिनशब्दस्य युरादेशः । १५०५ | प्रकारवचने थाल् । (५-३-२३) किंसर्वनामबहुभ्यः प्रकारेऽर्थे थाल् । सर्वेण प्रकारेण - सर्वथा । यथा, तथा ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४१२&oldid=348009" इत्यस्माद् प्रतिप्राप्तम्