एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९४ लघुपाणिनीये [अतिशायनतद्धिताः १५०६ | इदमस्थमुः । (५-३-२४) थालोऽपवादः । इत्थम् 'एतेतौ रथोः' इति इदादेशः । १५०७ । किमश्च । (५-३-२५) कथम् । इति विभक्तितद्धिताः । अथ केचित् प्रकीर्णकाः ॥ १५०८ । संख्याया विधार्थे धा । (५-३-४२) विध प्रकार: । एकधा, द्विधा, त्रिधा इत्यादि' । इदमप्यव्ययम् । १५०९ । याप्ये पाशप् । (५-३-४७) याप्य: कुत्सितः । कुत्सितो भिषक् - भिषक्पाशः । १५१० । भूतपूर्वे चरद् । (५-३-५३) पूर्वभूतो भूतपूर्वः । पूर्व दृष्टो दृष्टचरः । आढ्यचरः, उपाध्यायचरः, भिषक्चरः । १५११ । षष्ठ्या रूप्य च । (५-३-५४) देवदत्तस्य भूतपूर्वो देवदत्तरूप्यः, देवदत्तचरो वा गौः । अथ अतिशायनतद्धिताः ॥ १५१२ । अतिशायने तमविष्ठनौ । (५-३-५५) प्रकर्षेऽर्थे प्रातिपदिकात्तमबिष्ठनौ । प्रकर्षेण आढ्यः आढ्यतमः । । पटुः पटिष्ठ: १५१३ । तिङ । (५-३-५६) तिङन्तादप्यतिशायने तमप् । इष्ठस्तु निषेत्स्यते । NGDE १. द्वेधा, द्वैधं, त्रेधा, त्रैधम्, ऐकध्यम् इति विशेषरूपाण्यपि सन्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४१३&oldid=348010" इत्यस्माद् प्रतिप्राप्तम्