एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अतिशायनतद्धिता:] निरुक्तकाण्डः । - अत्र प्रक्रियोच्यते- १५१४ । किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे । (५-४-११) किम, एदन्तात्, तिङो, ऽव्ययाच्च, परो यो घस्तंस्य आमुप्रत्ययः खात् स्वार्थे । प्रकर्षो घवाच्यो न चेद्रव्यस्य । अथ को नाम घः ?- ?— १५१५ । तरप्तमपौ घः । (१-१-२२) एतौ घसंज्ञौ । प्रकर्षेण पचति पचतितमाम् । पठतितमाम् । किरतितमां-तिङ् । प्राद्धेतमां, प्रगेतमां - एत् । उच्चैस्तमां, सुतमाम् - अव्ययम् । १५१६ । द्विवचनविभज्योपपदे तरबीयसुनौ । (५-३-५७) द्वयोः प्रकर्षवचने, 'पञ्चमी विभक्ते' इति विहिते पञ्चम्यन्ते चोपपदे तरबीयसुनौ स्तः । तमबिष्ठनोरपवादौ । अतो बहुषु प्रकर्ष- निर्धारण एव तौ । यथा— रामकृष्णयोः कृष्णः पटुतरः, पटीयान् वा । माथुराः पाटलीपुत्रेभ्य आढ्यतराः । सुकुमारतरः, पचतितराम् । सुतराम्, उच्चैस्तराम् । ३९५ १५१७ । अजादी गुणवचनादेव । (५-४-५८) अतिशायनप्रत्ययेषु इष्ठन्नीयसुनौ अजादी । तौ गुणवाचिभ्य एव । एवमेवोदाहृतम् । इष्टेमेयस्सु विहिताः प्रक्रिया अत्रानुसन्धेयाः । १५१८ । प्रशस्यस्य श्रः । (५-३-६०) इष्ठन्नीयसुनोः । प्रशस्यतरः, श्रेयान् । प्रशस्यतमः, श्रेष्ठः । । १५१९ । ज्य च । (५-३-६१) प्रशस्यतरो ज्यायान्, ज्येष्ठः । १५२० । वृद्धस्य च । (५-३-६२) वृद्धतरो ज्यायान्, ज्येष्ठः १५२१ । अन्तिकबाढयोनेंदसाधौ । (५-३-६३) यथासङ्ख्यम् । नेदीयान्, नेदिष्ठः । साधीयान्, साधिष्ठः । १५२२ । युवाल्पयोः कनन्यतरस्याम् । (५-३-६४) यवीयान्, यविष्टः । कनीयान्, कनिष्ठः । अल्पीयान्, अल्पिष्ठः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४१४&oldid=348011" इत्यस्माद् प्रतिप्राप्तम्