एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये १५२३ । विन्मतोर्लुक् । (५-३-६५) इष्ठन्नीयसुनोः परयोर्मतुपो विन्प्रत्ययस्य च लुक् । बलवत्तरो बलीयान् । बलवत्तमो बलिष्ठः । मेधावितरो मेधीयान् । मेघावितमो मेधिष्ठः । इत्यातिशायनिकाः ॥ ३९६ [तद्धितकप्रत्ययः अथ पुनरपि प्रकीर्णकाः ॥ १५२४ । प्रशंसायां रूपप् । (५-३-६६) प्रशस्तो वैयाकरणो वैयाकरणरूपः । १५२५ । ईषदसमाप्तौ कल्पब्देश्यदेशीयरः । (५-३-६७) ईषदूनः पटुः पटुकल्पः, पटुदेश्यः, पटुदेशीयां वा । तिङश्चेत्यनुवृत्तेरेते तिङन्तादपि स्युः - प्रशस्तं पचति-पचतिरूपम् । ईषदूनं पचति-पचतिकल्पम् । तद्धितत्वेन सुबुत्पत्तौ द्वित्वकर्मत्वादीनामयोगात् सामान्ये नपुंसकं प्रथमैकवचनं च । तथा चाव्ययप्रायत्वम् । १५२६ । विभाषा सुपो बहुपुरस्तात्तु । (५-३-६८) ईषदसमप्तावित्येव । ‘सुप्' इत्युक्तिस्तिङो निवृत्त्यर्था । बहुच्- प्रत्ययः प्रकृतेः पूर्वं भवतीति विशेषः । विभाषाग्रहणं समासार्थम् । ईषदूनः पटुर्बहुपटुः । १५२७ । प्रकारवचने जातीयर् । (५-३-६९) पटुप्रकारः पटुजातीयः । मृदुजातीयः । अथापकर्षकः कप्रत्ययः ॥ १५२८ । प्रागिवात् कः । (५-३-७०)GDF

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४१५&oldid=348012" इत्यस्माद् प्रतिप्राप्तम्