एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अव्ययतद्धिताः] निरुक्तकाण्ड: । ३९७ ‘इवे प्रतिकृतौ ' इति पर्यन्तं कप्रत्यय: सामान्येनाधिक्रियते । १५२९ । अव्ययसर्वनाम्नामकच् प्राक टे: । (५-३-७१) कप्रत्ययापवादोऽकच् । अयं टे: प्राग् भवतीति विशेष: । तिङन्ते- भ्योऽप्ययमिष्यन्ते । , अज्ञाते, कुत्सिते, चाल्पे, हस्वे, संज्ञानुकम्पयोः । प्रतिकृत्यामथ स्वार्थेऽप्येष कप्रत्ययो भवेत् ॥ यथा—कस्यायमित्यज्ञातोऽश्वः अश्वकः । उष्ट्रकः इत्यादि । कुत्सितोऽल्पो ह्रखो चा अश्वः अश्वकः । शूद्रकः, शाबकः, वेणुकः इत्यादयः संज्ञायाम् ॥ अनुकम्पनीयः पुत्रः पुत्रकः । वत्सकः । बुभुक्षितकः ॥ अश्वस्य प्रतिकृतिरश्वकः । उष्ट्रकः। गजकः॥ वृक्ष एव बृक्षकः । बाल एव बालकः ॥ अल्पं पचति पचतकि । कुत्सितमजल्पत् अजल्पकत् ॥ उच्चकैः, नीचकैः, सर्वके, सकः, अमुकः, त्वयका ॥ १५३० । समासाच्च तद्विषयात् (छ) । (५-३-१०६) तच्छब्देन इवार्थ: परामृश्यते । इवार्थविषयात् समासाच्छप्रत्ययः स्यात् । यथा - - काकतालीयो देवदत्तबधः काकागमनतालपतनयोर्घटनेन जातः काकवध इव यदृच्छाघटित इत्यर्थः । अथ केचिद्व्ययतद्धिताः ॥ १५३१ । संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् । (५-४-१७) पञ्चकृत्वो भुते – पञ्चवारमित्यर्थः । एवं षट्कृत्व इत्यादि । १५३२ । द्वित्रिचतुर्भ्यः सुच् । (५-४-१८) कृत्वसुचोऽपवादः । द्विः, त्रिः, चतुः । १५३३ । एकस्य सकृच्च । (५-४-१९) एकशब्दस्य सकृदित्यादेशः सुप्रत्ययश्च । प्रत्ययस्य संयोगान्त- त्ययस्य संयोगान्त लोपः— सकृद् – एकवारमित्यर्थः । -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४१६&oldid=348013" इत्यस्माद् प्रतिप्राप्तम्