एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९८ लघुपाणिनीये १५३४ । प्रज्ञादिभ्यश्च (अण्) । (५-४-३८) स्वार्थे अण्प्रत्ययः । नेदं परमव्ययम् । [अव्ययाः प्रज्ञ एव-प्राज्ञः । वणिगेव-वाणिजः । मरुदेव - मारुतः । चोर एव-चौरः । मन एव-मानसम् । देवतैव–दैवतम् । १५३५ । बड्डल्पार्थाच्छस्कारकादन्यतरस्याम् । ५--४-४२) बहु, बहुभिः, बहुभ्यो, बहुषु वा बहुशो ददाति । एवं स्तोकशः, अल्पशः इत्यादि । १५३६ । संख्यैकवचनाच्च वीप्सायाम् । (५-४-४४) संख्यावाचिभ्यः परिमाणवाचिभ्यश्च कारकेभ्यः शस् वीप्सायां द्योत्यायाम् । द्वौ द्वौ मोदकौ ददाति - द्विशो मोदकं ददाति । एवं त्रिशः, शतशः, सहस्रशः। प्रस्थशो धान्यं क्रीणाति ॥ १५३७ । प्रतियोगे पञ्चम्यास्तसिः । (५-४-४४) प्रतिना कर्मप्रवचनीयेन योगे विहितायाः पञ्चम्यास्तसिः । यथा अभिमन्युरर्जुनतः प्रति । १५३८ । अपादाने चाहीयरुहोः । (५-४-४५) अपादाने पञ्चम्याश्च तसिर्न तु हीयरुहोः । अपादाने- प्रामत आगच्छति । चोरतो बिभेति । - हीयरुहोस्तु – अर्थाद्धीयते । वृक्षादवरोहति इति पञ्चम्येव । - - ॥ * ॥ आद्यादिभ्यस्त सेरुपसंख्यानम् ॥ आद्यादिभ्यो विभक्त्यन्तरेऽपि तसिः । आदौ — आदितः। पार्श्वे— पार्श्वतः । एवं पृष्ठत इत्यादि । अयमेव सार्वविभक्तिकस्तसिरित्युच्यते । १५३९ । षष्ठ्या व्याश्रये । (५-४-४८) नानापक्षसमाश्रयो व्याश्रयः । तत्र षष्ठचास्तसिः । यथा— देवा अर्जुनतोऽभवन् । अर्जुनस्य पक्षे इत्यर्थः । १५४० । कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः । (५-४-५०) ॥ * ॥ अभूततद्भाव इति वक्तव्यम् ॥ कारणस्य विकाररूपेण अभूतस्य तदात्मना भावोऽभूततद्भावः । सम्पद्यतेः कर्ता सम्पद्यकर्ता । अभूततद्भावे गम्यमाने कृभ्वस्तिभिर्धातु-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४१७&oldid=348014" इत्यस्माद् प्रतिप्राप्तम्