एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ आकाङ्क्षाकाण्डः ॥ शब्दानां व्युत्पत्तिर्व्युत्पन्नानां शब्दानामव्युत्पन्नानां च सुप्तिङ्- भेदभिन्ना रूपनिष्पत्तयश्च व्याख्याताः । इतः परं निष्पन्नानां पदानाम् अन्योन्यान्वये यानि कार्याणि तान्युच्यन्ते - १५४७ । समर्थः पदविधिः । (२-१-१) पदसम्बन्धी विधिः सर्वोऽपि सङ्गतार्थो भवितुमर्हति । पदकार्या- ण्यर्थसाङ्गत्य एव प्रवर्तेरन् । अर्थसाङ्गत्यमेव सामर्थ्यमित्युच्यते । इह हि संस्कृतभाषायां संहितायाः प्राबल्याद्वाक्यद्वयप्रयोगे पूर्ववाक्यान्तिम- पदस्य उत्तरव।क्यादिपदेन सहान्वयाभावेऽपि योगसद्भावाल्लक्षणैकचक्षुः शिष्यः पदकार्याण्यपि कदाचिदापादयेदिति शङ्कमान आचार्य: परि- भाषामेनां प्रणीतवान् । तेन 'पुत्रो राज्ञः, पुरुषो देवदत्तस्य' इत्यत्र सामर्थ्याभावात् राज-पुरुषपदयो: राजपुरुष इति समासो न प्राप्नोति । पदविधिरित्युक्तेर्वर्णकार्याणि तु भवन्त्येव । यथात्रैव ङसः सकारस्य रुत्वे पाक्षिकावुपध्मानीयविसर्गौ । यथा वा 'तिष्ठतु दध्याहर भोस्तक्रम् ' इत्यादौ यण् सन्धिकार्यम् ॥ सामर्थ्य तावद्विविधं–व्यपेक्षा एकार्थीभावश्चेति । तत्र स्वार्थ- पर्यवसायित्वेन स्वतन्त्राणामेव पदानामाकाडावशाद्यः परस्परसम्बन्ध: सा व्यपेक्षा समुदायार्थस्य एकत्व प्रतीत्यर्थ स्वस्वाभिधेयस्य परस्परस्मिन् न्यग्भावनेन परतन्त्राणां पदानां सामर्थ्यमेकार्थीभावः । एकार्थीभाव एव वृत्तिरित्युच्यते । सा च कृत्, तद्धितः, समासः, एकशेष:, सना- द्यन्ता इति पञ्चविधा । एषु समासैकशेषयोरेव घटकावयवाः पदानि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४१९&oldid=348016" इत्यस्माद् प्रतिप्राप्तम्