एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृत्तिकार्याणि] आकाङ्क्षाकाण्डः । अन्ये पदप्रत्ययाभ्याम् उपकल्पिता: । वृत्तीनामर्थानुवादकं वाक्यं विग्रह इत्युच्यते । वृत्तिषु घटकावयवानां स्वातन्त्र्याभावाद्विशेषणयोगो न घटते । यथा- दृढं कुम्भं करोतीति दृढं कुम्भकारः – ( कृत् ) । इति न । अध्यर्धेन शतेन क्रीतः अध्यर्धेन शल्यः -- ( तद्धितः) । विक्रमिणो राज्ञः पुरुषः विक्रमिणो राजपुरुषः-(समासः) । युवतिर्माता वृद्धःपिता च युवतिरृद्धः पितरौ-(एकशेषः) । ine आयुष्मन्तं पुत्रमिच्छति आयुष्मन्तं पुत्रकाम्यति – (सनाद्यन्तः) । इति न । विशेषणविशिष्टे वाक्ये वृत्तिर्न प्रवर्तेतैव । वृद्धस्य दशरथस्यापत्यमिति " >> विवक्षायां दशरथशब्दात् 'अत इञ्' इत्यपत्यप्रत्ययस्य नावकाश एव । तथा चोक्तम्- e - 'सविशेषणानां वृत्तिर्न, वृत्तस्य च विशेषणयोगो न ।' इति । वृत्तौ घटकं वृत्तम् । वाक्ये सामर्थ्य व्यपेक्षा । तत्र च पदानां स्वातन्त्र्याद्यथेष्टं विशेषणयोगः । आकाङ्क्षायोग्यतासन्निध्यनुरोधेनैकस्यानेकपदान्वयोऽपि भवति । यथा— राज्ञो देवदत्तस्य च पुरुषः । राज्ञः पुरुषोऽश्वश्च । तव वा मम वा गृहम् । नित्यसापेक्षाणां तु शब्दानां वृत्तावपि एकदेशान्वयो भवत्येव । तथा चोक्तम्- 6 - malay 'सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते । वाक्यवत् सा व्यपेक्षा हि वृत्तावपि न हीयते ॥ अनेन देवदत्तस्य गुरुकुलम् इत्यादि सिध्यति । अन्यत्रापि शिवस्य भगवतो भक्तः शिवभागवतः । आक्रुष्टा मरुतां लीला यैस्तान ‘मरुतामाकुचलीलान्' } – रघुवंशम् इत्यादौ सापेक्षाणां समासो दृश्यते । तेन यत्रार्थप्रतीतिर्न हीयते तत्र सापेक्षाणामपि व्यधिकरणविशेषणाना मेकदेशान्वयोऽभ्युपेय एवेति स्थितम् ॥ SGDF

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४२०&oldid=348017" इत्यस्माद् प्रतिप्राप्तम्