एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०२ लघुपाणिनीये ॥ समासप्रकरणम् ॥ [समासविभाग अन्वितानां पदानामेकीकरणं समासः । स च घटकपदान जातिभेदाभिप्रायेण ‘सुपां सुपा, तिङा, नाम्ना, धातुनाथ तिङां तिङा । सुबन्तेनेति च ज्ञेयः समासः षड्डिधो बुधैः ॥ ' इत्युक्तरीत्या षड्डिधः । किं त्वयं विभागो नातीव कार्यकारी । घट पदानां प्राधान्यनिबन्धने विभागे समासश्चतुर्विधः- पूर्वपदार्थप्रधानोऽव्ययीभावः—उपहरि । उत्तरपदार्थप्रधानस्तत्पुरुषः—राजपुरुषः । उभयपदार्थप्रधानो द्वन्द्वः – रामलक्ष्मणौ । अन्यपदार्थप्रधानो बहुव्रीहिः – पीताम्बरः । - इति । अयमेव विभागो व्युत्पादकः, पाणिनिना चाहतः । किं तु प्रति यैकपरायण आचार्यस्तत्पुरुषादी: संज्ञाः समासान्तादिकार्यप्रापणार्थ निबध्नाति । अतश्चाव्ययीभावादीनामर्थव्यभिचार: सुलभ एव । यथा शाकप्रति इत्यव्ययीभाव उत्तरपदार्थप्रधानः । अतिमाल इति तत्पुरुषः पदार्थप्रधानः । द्वित्रा इति बहुव्रीहिरुभयपदार्थप्रधानः । तत्तद्धिकारेषु विहिताः समासास्तत्तत्संज्ञा इत्येव । एवं सर्वनामाद संज्ञा अपि कार्यनिबन्धना एव, न त्वर्थनिबन्धना: । अन्यथा प्रथमचर- तयाल्पार्धादीनां कथं सर्वनामता स्यात् ? - समासविधेः प्राक् तदुपयुक्ताः प्रक्रिया वक्ष्यामः- १५४८ | तत्पुरुषः समानाधिकरणः कर्मधारयः । (१-२-४२) उत्तरपदप्राधान्यात्तत्पुरुषे हि पूर्वपदं विशेषणम् । तद्यत्र विशेष णोत्तरपदेन समानाधिकरणं स तत्पुरुषः कर्मधारयसंज्ञः । यथा- नीलमुल्पलं नीलोल्पलम् । वारयसतः । यथा- -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४२१&oldid=348018" इत्यस्माद् प्रतिप्राप्तम्