एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समासप्रक्रियाः ] आकाङ्क्षाकाण्डः । १५४९ । प्रथमानिर्दिष्टं समास उपसर्जनम् । (१-२-४३) समासविधौ प्रथमाविभक्त्या निर्दिष्टं पदमुपसर्जनसंज्ञम् । यथा- ‘विशेषणं विशेष्येण बहुलम्' इति विधौ प्रथमान्तं विशेषणमुपसर्जनम् । १५५० । एकविभक्ति चापूर्वनिपाते । (१-२-४४) एका अभिन्ना विभक्तिर्यस्य तदेकविभक्ति । विग्रहे नियत विभक्तिकम्, अत एव विशेषणत्वेनाप्रधानं पदमुपसर्जनमित्यर्थः इदमेव लौकिकमुपसर्जनलक्षणम्, पूर्वोक्तं तु समासशास्त्रे सङ्केतमात्रम् वक्ष्यमाणे (सू० १६१४) पूर्वनिपाते प्रागुक्तं 'प्रथमानिर्दिष्ट-रूपमेवोप- सर्जनं ग्राह्यं, न त्विदम्' इति निषेधति 'अपूर्वनिपाते' इति । अस्य तु फलमुपसर्जनह्रस्वः । स एवोच्यते- १५५१ । गोस्त्रियोरुपसर्जनस्य (हस्व:) । (१-२-४८) उपसर्जनयोर्गोशब्द स्त्रीप्रत्ययान्तयोर्हस्वः । यथा - चित्रा गावो यस्य स चित्रगुः । मालामतिक्रान्तोऽतिमालः । निर्गतः कौशाम्ब्या निष्कौशाम्बः । प्राप्तो जीविकां प्राप्तजीविकः । ४०३ १५५२ । लुक तद्धितलुकि । (१-२-४९) यत्र तद्धितप्रत्ययस्य लुक् तत्र स्त्रीप्रत्ययस्यापि लुगेव, न तुह्रस्व: क्रीतविकारादिष्वर्थेषु तद्धितस्य लुगुक्तः । पञ्च इन्द्राण्यो देवता अस्य – पञ्चेन्द्रः । आमलक्याः फलमामलकम् । - अथ समासविधिः ॥ १५५३ । प्राकडारात् समासः । (२-१-३) ‘कडारा: कर्मधारये' इति यावत् समासोऽधिक्रियते । OF

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४२२&oldid=348019" इत्यस्माद् प्रतिप्राप्तम्