एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [समासप्रक० १५६२ । विभाषा । (२-१-११) इतः परं ये समासा उच्यन्ते ते विकल्पेनैवेत्यधिकारः । एतेनो- क्ताः समासा: नित्याः । उपवृक्षम्, अधिहरि, निर्मक्षिकम् इत्यादिषु वृक्षस्य उप, हरौ अधि, मक्षिकाणां निर् इति विग्रहावस्था न भवत्येव । अतो नित्यसमासः, अनित्यसमास इति समासस्यान्योऽपि द्विविधो भेदो भवति । अस्वपदविग्रहा नित्यसमासाः । स्वपदविग्राह्या अनित्यसमासाः।। । ४०६ १५६३ | अपपरिवहिरञ्चवः पञ्चम्या । (२-१-१२) अचुशब्देन प्राक्प्रत्यगादयो गृह्यन्ते । अपादयः पञ्चम्यन्तेन वा समस्यन्ते । यथा- - अपत्रिगर्तम्, अप त्रिगर्तेभ्यो वा वृष्टो देवः । एवं परित्रिगर्ते, बहिर्ग्रामं, प्राग्ग्रामम् इत्यादि । १५६४ । आङ्मर्यादाभिविध्योः । (२-१-२३) आसेतु आहिमाचलम्, आ सेतोरा हिमाचलाद्वा । १५६५ । लक्षणेनाभिप्रती आभिमुंख्ये । (२-१-१४) लक्षणवाचिना सह अभिप्रती वा समस्येते आभिमुख्येऽर्थे । अभ्यग्नि शलभाः पतन्ति । प्रत्याग्न पतन्ति-अग्निं लक्षीकृत्येत्यर्थः । १५६६ । अनुर्यत्समया । (२-१-१५) अनुर्यस्य समीपवाची तेन लक्षणभूतेन वा समस्यते । अनुवनमशनिर्गतः –– वनसमीपं लक्षीकृत्येर्थः । १५६७ । यस्य चायामः । (२-१-१६) अनुयमुनं मथुरा – यमुनायामेन मथुरायामो लक्ष्यते । १५६८ । तिष्ठद्गुप्रभृतीनि च । (२-१) एतानि निपात्यन्ते । तिष्ठद्गु नाम गोदोहनकालः । १५६९ । पारे मध्ये षष्ठया वा । (२-१) पारे मध्ये इत्येदन्ते पदे षष्ठया वा समस्येते । विभाषाधिकारे- ऽपि वावचनं षष्ठीतत्पुरुषसमावेशार्थम् । यथा- - पारेगङ्ग, गङ्गापारं, गङ्गायाः पारं वा । एवं मध्येमार्ग, मार्गमध्यं, मार्गस्य मध्यं वा ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४२५&oldid=348022" इत्यस्माद् प्रतिप्राप्तम्