एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्पुरुषः] आकाङ्क्षाकाण्डः । १५७० । तत्पुरुषः । (२-१-२२) १५७१ । द्विगुश्च । (२-१-२३) द्विगुरपि तत्पुरुषसंज्ञः । समासान्त: संज्ञाप्रयोजनम् ॥ १५७२ । द्वितीया श्रितातीतपतिंतगतात्यस्तप्राप्तापनः । (२-१-२४) द्वितीयान्तं श्रितादिभिः कर्तरि निष्ठान्तैर्वा समस्यते । तत्पुरुष- www. संज्ञश्च समासः । यथा - - कृष्णं श्रितः कृष्णश्रितः । सुखप्राप्तः, शरणापन्नः इत्यादि । a ॥ * ॥ गम्यादीनामुपसंख्यानम् ॥ प्रामं गमी–प्रामगमी । अन्नं बुभुक्षुरन्नबुभुक्षुरित्यादि । यथाप्रयोगं गम्यादिः पठनीयः । १५७३ । अत्यन्तसंयोगे च । (२-१-२९) अत्यन्तसंयोगे द्वितीया समर्थेन समस्यते । मुहूर्त सुखं-मुहूर्तसुखम् । क्रोशकुटिला नदी । ४०७ १५७४ । पूर्वसदृशसमानार्थकलहनिपुणमिश्रश्लक्ष्णैः । (२-१-३१) तृतीया समस्यते । मासेन पूर्वो मासपूर्वः। चन्द्रेण सदृशश्चन्द्रसदृश इत्यादि । १५७५ । कर्तृकरणे कृता बहुलम् | (२-१-३२) सर्पेण दष्टः सर्पदष्टः । नखैर्भिन्नो नखमिन्नः । बहुलग्रहणादन्येऽपि यथाप्रयोगं तृतीयातत्पुरुषाः । १५७६ । चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः । (२-१-३६) यूपाय दारु यूपदारु । कुण्डलाय हिरण्यं कुण्डलहिरण्यम् । १५७७ । पञ्चमी भयेन । (२-१-३७) उपलक्षणमिदम् । अन्येऽपि पञ्चमीतत्पुरुषा एवमूह्या: चोरात् भयं चोरभयम् । वृक्षात् पतितं वृक्षपतितम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४२६&oldid=348023" इत्यस्माद् प्रतिप्राप्तम्