एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१४ [समासप्रक० लघुपाणिनीये ३. प्रादिभ्यो जातुजस्य वाच्यो वा चोत्तरपदलोपः । प्रपतितं पर्णे यस्य स प्रपर्णस्तरुः । उन्मुखं, सम्मुखम् । ४. नञोऽस्त्यर्थानां बहुव्रीहिर्वाच्यो वा चोत्तरपदलोपः । अविद्यमानः पुत्रो यस्य सः अपुत्रः अविद्यमानपुत्रः । अभार्यः । १६०९ । संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये । (२-२-२५) संख्येयवाचिना संख्यापदेनाव्ययादयः समस्यन्ते स च बहुव्रीहिः । दशानां समीपे ये वर्तन्ते ते उपदशाः । आसन्नविंशाः अदूरत्रिंशाः, अधिकविंशाः । द्वौ वा त्रयो वा द्वित्राः, त्रिचतुराः, चतुष्पञ्चाः । अत्र सर्वत्र समासान्तो वक्ष्यते ॥ १६१० । दिङ्नामान्यन्तराले । (२-२-२६) दिङ्नामान्यन्तराले वाच्ये समस्यन्ते । पूर्वस्या उत्तरस्याच दिशोऽन्तरालमुत्तरपूर्वा । एवं दक्षिणपश्चिमा । 'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' इति पुंवद्भावात् पूर्वपदहस्वः || १६११ । तत्र तेनेदमिति सरूपे । (२-२-२७) सप्तम्यन्ते तृतीयान्ते च समानरूपे पदे मिथ: समस्येते । अर्थ- विशेष: सर्वो लोकप्रसिद्ध इति इतिशब्देन द्योतितः । तस्मिन् प्रगृह्य तेन प्रहृत्य वा इदं युद्धं प्रवृत्तमित्यर्थ इतिशब्दद्योत्यः । 'अन्येषामपि दृश्यते' (१७०८) इति पूर्वपदस्य दीर्घः, इच् समासान्ताश्च वक्ष्यते इजन्तं चाव्ययम् | यथा— — - केशेषु केशेषु प्रगृह्येदं युद्धं प्रवृत्तं – केशाकेशि । दण्डैश्च दण्डैश्च प्रहृत्येदं— दण्डा दण्डि । एवं हस्ताहस्ति, मुसलामुसलि इत्यादि । १६१२ । तेन सहेति तुल्ययोगे । (२-२-२८) सहशब्दस्तृतीयान्तेन समयते । तेन सह वर्तते इत्यर्थे । सह शब्दस्य सभावो वक्ष्यते । यथा— पुत्रेण सह वर्तत इति सपुत्रः । सकर्मकः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४३३&oldid=348030" इत्यस्माद् प्रतिप्राप्तम्